SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Vol. XXI, 1997 _KUMARASAMBHAVA AS CRITICALLY EXAMINED BY.... 31 ४८. ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च तत्* ॥ *च यत् - Kale; Karandikar; सस्मिताः कथाः - व्य. वि.; रेवा.; चतत्. - व्य. वि.; रेवा.; का. शा.. कु. सं. ४.२३ ४९. कुसुमायुधपत्नि दुर्लभस्तव भर्ता न चिराद् भविष्यति । श्रृणु येन स कर्मणा गतः* शलभत्वं हरलोचनाचिषि ॥ *गतः स कर्मणा - का. शा.. चिषाम् - का. शा. कु. सं. ४.४० ५०. तदिदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः । रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी ॥ कु. सं. ४.४४. ५१. कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते ॥ कु. सं. ५.१६. ५२. स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।। वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥ *क्षणं स्थिताः - का. शा.. वलीषु - का. शा.. कु. सं. ५.२४. ५३. अतोऽत्र किंचिद् भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः । अयं जनः प्रष्टुमनास्तपोधने न चेद् रहस्यं प्रतिवक्तुमर्हसि* ॥ *प्रतिगोप्तुमर्हसि - का. शा... कु. सं. ५.४०. ५४. दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मुग्यते हि तत् ॥ क. सं. ५.४५. ५५. निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ कु. सं. ५.४६. ५६. द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थना पिनाकिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ *कपालिनः - व. जी.; व्य. वि.; रेवा. __कु. सं. ५.७१. ५७. वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद् बालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ कु. सं. ५.७२.
SR No.520771
Book TitleSambodhi 1998 Vol 21
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages196
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy