SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 30 ARPITA G. PATEL SAMBODHI कु. सं.. ३.६४. कु. सं. ३.६६. कु. सं. ३.६७. कु. सं. ३.६८. कु. सं. ३.७०. ३७. कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ ३८. प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रमे* च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥ *उपचक्रमेव - लोचन ३९. *हरस्तु किंचित्प*रिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ *हरोऽपि तावत् परिवृत्तधैर्यः - का. मी.. परिवृत्तधैर्यः - लोचन ४०. विवृण्वती शैलसुतापि भावमङ्गैः *स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ *स्फुटद्धाल. - द. रू.. ४१. स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्जितसव्यपादम् । ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ ४२. क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति । तावत् स वह्निभवनेत्रजन्मा भस्मावशेष मदनं चकार ॥ ४३. तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । __· अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ '४४. शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ॥ सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथंचित् ॥ ४५. अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ ४६. कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ४७. हृदये वसतीति* मत्प्रियं यदवोचस्तदवैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ *वससीति - Kale, Karandikar कु. सं. ३.७२. कु. सं. ३.७३. कु. सं. ३.७५. कु. सं. ४.३. कु. सं. ४.७. कु. सं. ४.९.
SR No.520771
Book TitleSambodhi 1998 Vol 21
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages196
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy