SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Vol. XXI, 1997 _KUMARASAMBHAVA AS CRITICALLY EXAMINED BY.... 29 २६. असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि । ___पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण ॥ कु. सं. ३.२६. २७. बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ कु. सं. ३.२९. २८. हिमव्यपायाद् विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् । स्वेदोद्गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ कु. सं. ३.३३. २९. तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने । काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवः ॥ कु. सं. ३.३५. ३०. मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण *च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥ कृष्णसारः - Kale; Karandikar व.जी.; कृष्णसारः - द. रू.; * श्रृङ्गेण संस्पर्श - द. रू.; कु. सं. ३.३६. ३१. ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अधौपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥ कु. सं. ३.३७. ३२. श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ कु. सं. ३.४०. ३३. निर्वाणभूयिष्ठमथास्य वीर्य संधुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता* वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥ * अनुप्रदाता - लोचन. कु. सं..३.५२. ३४. अशोकनिर्भत्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् । मुक्ताकलापीकृतसिन्धु वारं वसन्तपुष्पाभरणं वहन्ती ॥ *o fringe - Karundikar *o fry - Kale कु. सं. ३.५३. ३५. आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । ___ *पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥ *सुजातपुष्प. - का. शा.. कु. सं. ३.५४. ३६. स्रस्तां नितम्बादवलम्बमाना पुनः पुनः *केसरदामकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण *द्वितीयमौर्वीमिव कार्मुकस्य ॥ *केसर पुष्पकाञ्चीम् - व्य. वि.; रेवा.. * मौर्वी द्वितीयामिव. - Kale; Karandikar. कु. सं. ३.५५.
SR No.520771
Book TitleSambodhi 1998 Vol 21
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages196
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy