SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ARPITA G. PATEL SAMBODHI कु. सं. १.४७. कु. सं. १.४९. कु. सं. १.५२. कु. सं. २.१०. कु. सं. २.४९. कु. सं. २.५५. १४. तस्याः शलाकाञ्जननिर्मितेव कान्ति(वोरायतलेखयोर्वा । तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ १५. सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥ १६. अयाचितारं न हि *देवदेवमद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे । *देवमद्रिः व्य. वि. रेवा. प्रतिग्राहयितुं. व्य. वि.; रेवाः; १७. आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ १८. जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे *निष्कमिवार्पितम् ॥ *निष्क इवार्पितः - व्य. वि. रेवाः; १९. इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥ २०. कामेकपत्नीव्रतदुःखशीला लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ॥ २१. कयासि कामिन् सुरतापराधात्पादानतः कोपनयावधूतः । *तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥ *सुरतापराधात् - Kale; Edn23; Karundikar; Edn'50. *यस्यां व्य. वि. २२. तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥ २३. तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव । ___ अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥ २४. सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम् __चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥२॥ २५. मधुश्च ते मन्मथ साहचर्यादसावनुक्तोऽपि सहाय एव । समीरणो *नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥ *प्रेरयिता - व्य. वि.; रेवा.; कु. सं. ३.७. कु. सं. ३.८. कु. सं. ३.१०. कु. सं. ३.१८. कु. सं. ३.२०. कु. सं. ३.२१.
SR No.520771
Book TitleSambodhi 1998 Vol 21
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages196
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy