________________
132 ललिता चक्रवर्ती
SAMBODHI समग्रत्वं कात्य॑म् वा। सुबन्तपदानां द्विवचनविधानार्थं सूत्रे 'वीप्सा' इत्यस्य ग्रहणम्। यथा वृक्षं वृक्षं सिञ्चति। अर्थात् वाटिकास्थितवृक्षका अनावबुध्यन्ते। वृक्षं वृक्षमित्यादौ न बहुवचनप्रसङ्गः । अपि तु प्रत्येकवृक्षनिष्ठम् एकत्वमेत अत्र भासत इति, अत्र तु सेचनकर्ता सेचनक्रियया वाटिकास्थितान् सर्वान् व्याप्तुमिच्छतीति वीप्सार्थः । अनुरूपभावेन ग्रामो ग्रामो रमणीय: इत्यत्रापि बोद्धव्यम्। परि परित्रिगत्तेभ्य: इति वाक्ये 'परि' इति शब्दस्य पुनर्वचनं विना वर्जनरूपस्य अर्थस्य बोधेनैव संभवति। अध्यधिकुड्यम् इत्यत्रापि 'अधि' इति शब्दस्य द्विरभिधानेन सामीप्यरूपस्य अर्थस्य बोधो जायेत। एवं प्रकारेण अर्थविशेषप्रकाशार्थं व्याकरणशास्त्रे द्विर्वचनं स्वीक्रियते। सन्दर्भसूची :१). अनुपलब्धार्थत्वाच्च नानुवादलक्षणमप्रामाण्यमस्तीति 'अर्थेऽनुपब्धे' इत्यनेनोक्तम् ; शास्त्रदीपिका ; बनारस १९१६, पृ० १२७; तथाच
सर्वस्यानुपलब्धार्थे प्रामाण्यं स्मृतिरन्यथा । श्लोक वार्तिकम् (तात्पर्यटीकासहितम्) मद्रपुरी विश्वविद्यालय:, १९४० पृ० १८५ २) कारणदोषबाधकररहितम् गृहीतग्राहि ज्ञानं प्रमाणमिति प्रमाणलक्षणं सूचितम् । शास्त्रदीपिका ; बनारस ; १९१६,
पृ० १२२ प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनः । ताद्रूप्येण परिच्छन्ने, प्रमाणं निष्फलं परम् ।। श्लो० वा० (तात्पर्यटीका सहितम्) मद्रपुरी विश्वविद्यालयः, १९४०, पृ० ३१८-३१९ अनुवादो हि अर्थपरिच्छेदे व्यवहारे वा न पूर्वज्ञानात् किंचिद्विशेषमापत्ते, अत: फलविशेषाभावात्, फलार्थञ्च प्रमाणानां स्वीकारात् स्मृत्यादिवदनुवादोऽपि बहिप्कार्य एव इति।
तदप्रामाण्यमनृतव्याधातपुनरूक्तदोषेभ्य: । तदेव ।।-1-57 द्रष्टव्य:- प्राप्तस्य अनु पश्यात् कथनं सप्रयोजनम् अनुवाद इति सामान्यलक्षणम् ; न्यायदर्शने विश्वनाथवृत्तिः, नवदिल्लयाम् ; १९८५ पृ० ५६२ किमर्थं पुनर्विहितमनुकथ्यते ? अधिकारार्थम् ; विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा,.......! ; न्यायभाप्यम् तदेव;
पृ०५६१ ८) ........ विधिशेषो वाऽभिधीयते । ; तदेव । ९) विहितान्तरार्थोऽपि चानुवादो भवति । तदेव ; पृ० ५६२
द्रष्टव्य: - ओदनं पचेदितिविधिवाक्यम् । अर्थवादवाक्यम् आयुर्व! बलं सुरतं प्रतिभानं चान्ने प्रतिष्ठितम् ; तदेव; पृ० ५६२ .... समानार्थकसमानानुपूर्वोक्तशब्दप्रयोग: शब्दपुनरुक्तम् । समानार्थकभिन्नानुपुर्वोक्तशब्दस्य निप्पयोजनं पुनरभिधानमर्थपुनरुक्तम् । आद्यं यथा - 'घटो घटो' इति, द्वितीयं यथा 'घट: कलश' इति । ; तदेव ; तदेव ;
पृ० ११८८ १२) पुनरुक्तं च।