________________
Vol. XIX, 1994-1995.
अनुवादपुनरुक्तयो...
ननु अनुवादपुनरुक्तयोः नास्ति कश्चित् विशेषः । अनुवादवत् पुनरुक्तमपि द्विविधम् शब्दपुनरुक्तम अर्थपुनरुक्तञ्चेति" । उक्तञ्च आदौ उभयत्र व्युत्पत्तिगतार्थैक्यं वर्तते । तत्रपुनरुक्तमसाधुः, किन्तु अनुवादः साधुरेव - कथमेवद संभवम् ? भाष्यकारोऽपि आह- पुनरुक्तञ्च प्रमत्तवाक्यमिति । यत् प्रमत्तवाक्यं तन्न प्रमाणम् अनाप्तत्वात् ।
-
किञ्च सूत्रकार उभयत्र प्रतीतार्थशब्दस्याभ्यासत्वात् पुनरुक्तानुवादयो: न कञ्चित् विशेषमाधते । उभयत्रैव पूर्वप्रतीतार्थं शब्दा अभ्यस्यन्ते३ ३। यथा- 'गच्छ गच्छ' इति वाक्यान्तर्गतस्य द्वितीयात् 'गच्छ' इति शब्दात् यदर्थः प्रतिपद्येत तत् आद्येनैव प्रतीयेत ।
1
131
नैयायिकानाम् उपर्युक्तमतं परस्परविरुद्धवत् प्रकृतपक्षे नैयायिकै: अनुवादपुनरुक्तयोः भिन्नत्वमेव स्वीक्रियते। शब्दार्ययोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ( न्यायसूत्र ५१२ / ७४ ) इति सूत्रस्थितेन 'अन्यत्र' शब्दनैव तत् प्रतीयते इत्येवं सूत्रकारस्याभिप्रायः नान्यः । अर्थवान् अभ्यास अनुवादः अर्थवत्त्वरूपं प्रयोजनतत्त्वमेव अनुवादस्य प्रामाण्यम् । निष्प्रयोजनं पुनरभिधानं पुनरुक्तम् अपि च व्याख्यारूपं स प्रयोजनपुर्नवचनमेव अनुवादः ४ । घटोघट : इति अर्थपुनरुक्तस्थले द्वितीयो घटशब्देन घट: कलसः इति अर्थपुनरुक्तस्थले वा कलसः इति शब्देन कस्यचित् विशेषार्थबोधस्याभावात् निष्प्रयोजनम् अप्रामाण्यञ्च । किन्तु 'पचतु पचतु' इत्यानुवादस्थले आद्येन 'पचतु' इति शब्देन ममैव पाककर्त्तव्यम् - एवंविधवोधः जायते, किंवा पाकक्रियाया अविच्छेदकत्वस्य शीघ्रत्वस्य वा बोधो भवति। पुनश्च ‘शीघ्रं गम्यताम्' इति कथनादनन्तरं शीघ्रतरं गम्यताम् इत्यभिहिते पूनर्वचनं भवतीति नास्ति संशय:, किन्तु द्वितीयवाक्ये प्रयुक्तेन 'तरप्' प्रत्ययेन गमनकर्मणः अतिशय्यरूपविशेषार्थस्य बोधो जायते" । अतः तत् सार्थकम् । एतादृशविशेषबोधो प्रथमोच्चारितेन शीघ्रं गम्यताम् इति वाक्येन नैव संभवत्ति, तस्मात् पुनः 'तरप्' प्रत्ययेन द्विरुक्ति: क्रियते । ईदृशी द्विरुक्तिरेव अनुवादः । एततु सार्थकत्वात् प्रमाणमिति । त्रिप्रथमामन्वाह .... इति वैदिकवाक्यस्थले प्रथमोत्तमयोस्त्रिरभिधानसवेऽपि पञ्चदशत्वविधानरूपं प्रयोजनवशाद् । तन्न निष्प्रयोजनं पुनरुक्तम्, अपितु सप्रयोजनमनुवादः प्रमाणं वा ।
केषाञ्चित् मते परप्रतिपादनार्थं वाक्यं प्रयुज्यते । पुनरुक्त्या श्रोता वाक्यार्थस्य सम्यग्ज्ञानं लभते, अनेन, प्रकृतविषयस्य न कश्चित् बाधः हानिः वा जायते। अतः परप्रतिपादकेषु वाक्येषु पुनरुक्तं सार्थकमेव । किन्तु नैतत् समीचीनम्। यतः योऽर्थः प्रतिपाद्यते तस्य पुनः प्रतिपादनेन पुनरुक्तस्य वैयर्थ्यमेव साध्यते । परन्तु एतादृशवैयर्थ्यवशात् पुनरुक्तं निग्रहस्थानमेव । वाचस्पतिमिश्रमहोदयस्य मतानुसारेण वादी पुनरुक्तिप्रयोजने तत् प्रयोजनजिज्ञासायामेव आकुलचित्तः प्रतिवादी प्रथमोच्चारितवाक्यात् अपाततः प्रतीतार्थमेव अप्रतीतवत् अवबुद्ध्य निश्चितज्ञानलाभे असमर्थो भवति । तदा वादी पुनश्च तस्यावबोधार्थं प्रवृतः भवति । तस्य पुनरुक्तं नायं प्रतिपादकं भवति, अपितु विरुद्धप्रयोजनवत्वरूपं वैयर्थ्यमेव सम्पादयति, अर्थात् पुनरुक्तं निग्रहस्थानमेव" ।
वैयाकरणास्तु नित्यवीप्सयो: ( पाणिनिसूत्र २ - १ - ४ ) इति सूत्रेण नित्यार्थे वीप्सायाञ्च पदस्य द्विर्वचनं कुर्वन्ति । अत्र 'नित्य' इति पदस्य मुख्यार्थः कूटस्थः इति । तथा च अस्य गौणार्थ: आभीक्ष्ण्यमिति । यच्चापि गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः इति परिभाषाबलात् मुख्यस्य अर्थस्य ग्रहणं कर्तव्यं, तथापि, अत्र 'नित्य' इति शब्दस्य मुख्यार्थे लौकिकप्रयोगाभावात् आभीण्यरूपः गौणार्थ: ग्रहणीयः ७ । आभीक्ष्ण्यं तु पौनःपुन्यम् । अभीक्ष्ण्यग्रहणे तिङन्तेषु अव्ययसंज्ञककृदन्तेषु च पौनःपुन्यार्थं द्विवचनं विधीयते । यथा तिङन्ते 'पचति पचति' इति पाककर्त्तुः अनवरतं पाको हि अत्र बोद्धव्यः । अव्ययसंज्ञककृदन्ते यथा - भोजं भोजं व्रजति इति । वीप्सा हि व्याप्तुमिच्छा । व्याप्तिरत्र