________________
16
शब्दस्मृत्याख्यसामग्रयमामातिशयोद्भवः । प्रत्ययातिशयः सोऽयमित्येवं प्राक. प्रसाधितम् ॥ दण्डययमिति द्रव्याभेदकल्पना तु मन्दमतिभिरेवोदाहता । न हि दण्डोऽयमिति देवदत्ते प्रतीतिः,
अपि तु दण्डोति । तत्र च प्रकृतिप्रत्ययौ पृथगेवोपलभ्येते-दण्डोऽस्यास्तीति दण्डीति । तदिह यथैव वस्तु तथैव तदवसाय इति नाभेदारोपः । कर्मणि तद् द्वयमपि नास्ति, नाभिन्ने भेदकल्पनम्, न च भिन्नेऽप्यभेदकल्पना । क्रिया हि तद्वतो भिन्ना भेदेनैव च गृह्यते । चलतीत्यादिबोधेषु तत्स्वरूपावभासनात् ।। तेन क्रियागुणद्रव्यनामजात्युपरञ्जितम् ।
विषयं दर्शयन्नेति विकल्पो नाप्रमाणताम् ।। न्यायमञ्जरी, पृ० ७५-७७ 17. विपर्ययात् समुत्तीर्ण इति साधु सहामहे ।
प्रमाणात्तु बहिर्भूत विकल्प न क्षमामहे ॥ न्यायमञ्जरी, पृ० ७७ 18. क्वचिद् बाघकयोगेन यदि तस्याप्रमाणता ।' .... निर्विकल्पेऽपि तुल्याऽसौ द्विचन्द्राद्यवभासिनि । न्यायमञ्जरी, पृ० ७७ 19. मनोराज्यविकल्पानां काममस्त्वप्रमाणता । .... यथा वस्तुप्रवृत्तानां न स्वसावक्षजन्मनाम् ।। न्यायमञ्जरी, पृ० ७७ 20. न च निर्विकल्पकपृष्ठभावित्वकृतमेषामेतद्रूपम, विषयसंस्पर्शमन्तरेण स्वतः स्वच्छरूपाणां
ज्ञानानामेवमाकारत्वानुपपत्तेः, किं निर्विकल्पपृष्ठभाविता करिष्यति । न्यायमञ्जरी, पृ० ७७-७८ 21. ननु निर्विकल्पकेनैव वस्तुसर्वस्वं गृहीतम् , 'एकस्यार्थस्वभावस्य' इति वर्णितम् । प्रतिविहित...मेतत् गृहीतग्रणेऽपि प्रामाण्यानपायात् ।. न्यायमञ्जरी, ७८ . 22. किञ्च किं निर्विकल्पकेन गृह्यते इत्येतदेव न जानीमः ।
भवन्तो निर्विकल्पकस्य विषयं सम्प्रचक्षते सजातीयविजातीयपरावृत्तं स्वलक्षणम् ॥ महासामान्यमन्ये तु सत्तां तद्विषयं विदुः । वायूपमपरे तत्त्वं प्रमेयं तस्य मन्वते ॥ केचिद् गुणक्रियाद्रव्यजातिभेदादिरूषितम् । शबलं वस्तु मन्यन्ते निर्विकल्पकगोचरम् । प्रत्यक्षविषयेऽप्येताश्चित्रं विप्रतिपत्तयः । परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥ प्रत्यक्षे हि समुत्पन्ना विमतिः केन शाम्यति । इदं भाति न भातीति संविद्विप्रतिपत्तिषु ॥ परपत्यायने पुंसां शरणं शपथोक्तयः । न्यायमञ्जरी, पृ० ७८