SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 15 14. (a ) य: प्रागजनको बुद्धेः स लब्ध्वा सहकारिणम् । कालान्तरेण तां बुद्धिं विदधत् केन वार्यते ॥ इन्द्रियालोकमनस्कारविषयवद् वाचकस्मरणमपि सामम्यन्तर्गतमेतत्प्रत्ययजन्मनि व्याप्रियते इति न वाचकस्मरणजनितत्वेन स्मार्तस्वादप्रमाणं विकल्पः । न्यायमञ्जरी, पृ. ७१-७२ 15. (b) यच्चेदमुच्यते ' सोऽर्थो व्यवहितो भवेत्' इति, तन्न विद्मः कीदृशं व्यवधानमर्थस्येति । न हि दीपेन वा मनसा वा विज्ञानहेतुना कदाचिदर्थो व्यवधीयते । मनोबच्च वाचकस्मृतिरपि सामय्यन्तर्गता सती तत्प्रतीतौ व्याप्रियते इति कथमर्थं व्यवदधीत ? स्मृतिविषयीकृतः शब्दस्तमर्थं व्यवधत्ते इति चेत्, न, शब्दस्य तत्प्रकाश करवेन ज्ञानवद् दीपवद् वा व्यवधायकत्वाभावात् । न चेन्द्रियव्यापारतिरोधानं व्यवधानं. तस्याधुनाऽप्यनुवर्तमानत्वात् । यथा तद्भावभावित्वादाद्यं विज्ञानमक्षजम् । तथा तद्भाविश्वादुत्तरं ज्ञानमक्षजम् ॥ न हि वाचकस्मरणानन्तरमक्षिणी निमील्य विकल्पयति 'पटोऽयम्' इति । न्यायमञ्जरी, पृ. ७२ (c) यत् पुनर्विशेषण विशेष्यग्रहणादिसामध्यपेक्षत्वेन बहुप्रयाससाध्यत्वमप्रामाण्यकारणमभिीयते, तदतीव सुभाषितम् । न हि बहुक्लेशसाध्यत्वं नाम प्रामाण्यमुपहन्ति । उक्तं च 'न हि गिरिशृङ्गमारुह्य यद् गृह्यते तदप्रत्यक्षम्' इति । न्यायमञ्जरी, पृ० ७४ अथास्य निर्विकरूपकेनैव सर्वात्मना स्पृष्टत्वात् पिष्टपेषणमयुक्तम् इति सविकल्पकम् अधिगतार्थग्राहित्वादप्रमाणमिति मन्यसे तदपि न साधु, पूर्वमेव परिहृतत्वात् । न नधिगताधिगन्तृत्वं प्रामाण्यमित्युक्तम् । गृहीतग्रहणेऽपि प्रमाणस्य प्रमाणत्वानतिवृत्तेः । न्यायमञ्जरी, पृ० ७५ 16. यवभ्यधायि भिन्नेष्वभेदमभिन्नेषु च भेदं कल्पयन्त्य: कल्पना अतस्मिंस्तद्ग्र हे प्रामाण्यमवजहति इति, तद्युक्तम् अतस्मिंस्तद्ग्रहो भवत्यप्रमाणत्वकारणम्, तत् स्विह नास्ति । तस्य हि बाधकप्रत्ययोपसन्निपातान्निश्वयः । न च भवदुपवर्णितासु पञ्चस्वपि जात्यादिकल्पनासु बाधक किञ्चिदस्तीति नातस्मिंस्तद्ग्राहिण्यः कल्पना भवन्ति । जातिर्जातिमतो भिन्ना गुणी गुणगणात् पृथक् । यैव तत्प्रतीतेश्च कल्पनोक्तिरबाधिका || एतच्चोपरिष्टान्निर्णेष्यते । द्रव्यनाम्नोस्तु भिन्नयोर्भेदेनैव प्रतीतिः, नाभेदकल्पना । न हि 'देवदत्तशब्दोऽयम् इत्येव तद्वाच्यः प्रतीयते । ननु 'देवदत्तोऽयम्' इति संज्ञासंज्ञयभेदव्यवहारो दृश्यते इति चेत्, न, शब्दविशिष्टतद्वाच्या वगतिरेषा न शब्दोऽस्यामर्थारूढोऽवभासते न शब्दविवर्तरूपेणार्थः परिस्फुरति । किं तर्हि ?
SR No.520766
Book TitleSambodhi 1989 Vol 16
Original Sutra AuthorN/A
AuthorRamesh S Betai, Yajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages309
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy