________________
अरविन्द कुमार सिंह
यौष्माकीणप्रभावादकुरुत सकलक्षत्रियाणां 'विराम रामोऽयं जामदग्न्यस्तदिह कमपि में रक्षितारं सृजेति । मात्स्यन्यायप्रवृत्तौ सपदि वसुधया प्रार्थितश्चंद्रमौलिर्वेगात्तत्रैव संध्याविधिचुलुकजले वीरमेकं ससर्ज ॥३॥ तस्माच्चुलुक्यनाम्नो धरणिभृतः प्रववृते महावंशः । पादाक्रांतमहीको द्विजनिवह-*स्वैरभुक्तफलः ॥४॥ तत्र श्रीमूलराजाख्यो रोजाख्यातगुणीभि(गाभ)वत् । भ[-]वनं नीतिविद्यानां निरवद्यपराक्रमः ॥५॥ सीमांतसामंतलालटपट्टसंघट्टरेखांकिमहिपीठं । यस्याबभौकी* ॥ तिवधूप्रवेशहेतोरिव न्यस्तचतुष्कशोमं ॥६॥ चामुंडराज इति तस्य सुतो व(ब)भूव यः कामुकोऽपि रिपुभूपतिमंडलस्य । आच्छिद्य संततमसेवत राजलक्ष्मीदूरं मुमोच वनिताः शुचिवृत्तशाली ॥७॥ तस्माद्वल्लभराजोऽभूत् भूपतिर्येन भूतले । गुणैबंदीकृताः संतोरणैः प्रत्यर्थियोषितः ॥८॥ दोष्णादाढयपरिग्रहात्तुलयता दंष्ट्रं महदंष्ट्रिणः क्षोणी दुर्लभराज इत्यभिधया तस्याथवं(बं)धुईधै । . प्रत्यर्थिक्षितिपालपत्तनमहाहर्येषु यस्योर्जितां कीति' कीर्तयितुं क्षमाघनघुणोत्कीर्णैव वर्णावलिः ॥९॥ तस्यानुजन्माजनि पुण्यजन्मा श्रीनागराजो जितरा-1* जराजः ।