________________
जयसिंह सिद्धराज का विरूपाक्ष मन्दिर (घिलपांक) का अभिलेख
यः साधु धर्मेण कलि विधूय द्विर्धापि चक्रे परलोक सिद्धिं ॥१०॥ श्रीभीमदेव नृपतिस्तनयोऽस्य जज्ञे यस्यारिवीरनिवहास्थिचयस्थलेन । अद्यापि हंतविलसंतिचतुर्दिगंतभागेषु मूर्तिकलिता इव कीर्तयोऽसः (भूः) ॥११॥ सिंधुक्ष्मापतिखंडितांगुलिगलद्रक्तेन लाटाधिपस्त्रीलाकस्य कपोलकुंकुमरसोन्मिश्रेण वाष्पांभसा । शस्त्रोच्छादितमालवेश्वरभटव्यूहास्नु-।।* पूरैस्तथा सिक्तो यस्य जनानुरागकुसुमं सूतेस्म शौर्यगुमः ॥१२॥ सूनुस्तस्य व(ब)भूव भूपलि(ति)लकः श्रीकर्णदेवाह्वयो यस्यास्फालितमत्तकुंजरशिरः सिंदूरपूरारुणः । पाणिः पृष्ठमरं *जयद्विनमतां यद्वैरिपृथ्वीभुजां तेषां सैव समग्रराज्यकमला स्थैर्याकमुद्रा बभौ ॥१३॥ दानप्रीणितविप्रलोकसततप्रारब्धनोनावरप्राप्तप्रीतिरसेन नाकपतिना सोत्कंठमामंत्रि-।।* तः। स्वर्ग गंतुमनाः क्षमापतिरयं तत्राभ्यर्षिचन्निजे राज्ये श्रीजयसिंहदेव इति हि ख्याताह्वयं नंदनं ॥१४॥ देवः श्रीपुरुषोत्तमः स्वयमयं क्लुप्तावतारः क्षितौ दातास्मै रससिद्धिमंध-कारिपुः सिद्धाधिपत्यप्रदा । कर्तासावसहाय साहसरुचिः कर्माद्भुतानि क्षणादेवं यो जननक्षणेऽपि जगदे लोकोत्तरज्ञानिभिः ॥१५।। शैलेंद्रकंदरजुषां रिपुभूमिपालवामध्रुवां वन -चरी सहवासक्लप्ताः । गुंजास्रजः स्तनतटीपु चिरं व(ब)भूवुयत्कोपपावक कणावलिविभ्रमाय ॥१६॥ स एव राजानिःशेष