________________
मेघदूतम्
स यक्षः प्रीतिप्रमुखवचनं यथा भवत्येवम् । तस्मै घ स्वागत कुशलप्रश्नम्, व्याजहार जजल्प । प्रीत्या प्रमुखवचनं यत्र तत् क्रियाविशेषणम् । एकत्वं नपुंसकत्वं स्यात् । क्व सति ? नभसि श्रावणमासे प्रत्यासन्ने निकटवर्तिनि सति । स गुह्यकः । किं कुर्वन् ? जीमूतेन मेघेन, स्वकुशलमयीं स्वकुशलेन प्रवृत्ता स्वकुशलमयी, तां वार्ता हारयिष्यन् प्रापयिष्यन् । कीदृशः सः ? दयिताजीवितालम्बनार्थी दयिता जीवनस्य 29 आलम्बन अर्थयतीति दयिताजीवितालम्बनार्थी । पुनः कीदृश: ? प्रीतेः श्रावणासन्नत्वात् । कीदृशाय तस्मै ? कुटजकुसुमैः गिरिमल्लिका पुष्पैः कल्पितार्घाय 30 दत्तार्घाय पूजाय ( ये ) । कीदृशैस्तैः १ प्रत्या (स्य ) ग्रैः 31 नूतनैः देवताऽतिथि{:}पूजायोग्यैः ||४||
साम्प्रत प्रार्थना{य) द्वारेणाह 32 |
धूमज्योति सलिलमरुतां संनिपातः 33 क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुहयकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ||२५||
areer मेघ याचे प्रार्थयामास । गुह्यकः किं कुर्वन् ? औत्सुक्यातूS (द) 34. परिगणयन् विचारयन् इति । किं मेघः क्व संदेशार्थाः ? संदेशानामर्था: संदेशार्थाः । कीदृशो मेघ: १ धूमयो(ज्यो) तिसलिलमरुतां सन्निपातः समूहः । धूमच ज्योतिश्च सलिल च मरुच्च धूमयो (ज्यो)ति सलिलमरुतस्तेषाम् । कीदृश: (शा : ) 36 संदेशार्थाः १ पटुकरणे. सकलेन्द्रियैः प्राणिभिर्मनुजैः प्रापणीयाः न(ने) तया न दुर्बुद्धिभिनेतुं शक्याः । कथमेतद् ( द ) विचारितवान्नित्याह । हि यस्मात् कारणात्, कामार्ताः कन्दर्पपरवशाः पुरुषाः, चेतनाचेतनेषु वस्तुषु चैतन्यपदार्थेषु 37, प्रकृतिकृपण (णा:) 38 स्वभावदीना भवन्ति । नहि ते विषय [ अविषय ] 39 ज्ञातु ं समर्था इति ॥ ५ ॥
नामङ्गीकृत्याह ।
जातं वंशे भुवनविदिते 10 पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद्दूर बन्धुर्गतोऽहं याञ्च मोघा वरमधिगुणे नाधमे लब्धकामा ||६||
हे पयोद ! अहं त्वां भक्त (न्त ) म् + 1, पुष्करावर्तकानां मेघानां वंशे अन्वये, जातमुत्पम्न जानामि । अहं जानामि अवैमि । कीदृशे वंशे ! भुवनविदिते, त्रैलोक्यविख्याते । कीदृशं त्वां ? मघोनः शक्रस्य प्रकृतिपुरुष, प्रधान (ना) मात्यम् 42 । पुनः कीदृशं त्वां ९ कामरूप स्वेच्छया विहलं 43 रूपम् । तेन कारणेन अहं त्वयि भवति विषये अर्थित्वं याञ्चाभावं गतः प्राप्तः, युक्त] [s] - यमर्थः । अधिगुणे जात्याद्युत्कृष्टे पुर (रु) षे44 याचा प्रार्थना मोघा निष्फलाऽपि वरं श्रेष्ठम् 45, अधमे नीचे पुरुषे46 लब्धकामा प्राप्तेष्टाऽपि न वरं न श्रेष्ठम् 47 | कोदृशोऽह ? विधिवशात् दूरवसतः दूरबन्धुः दूरस्थितभार्यः ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org