________________
महाकवि-कालिदास-विरचितं
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२।।12
स यक्षो मे ददर्श , जीमूतमद्राक्षीत् । किं कृत्वा ? तस्मिन्ऽन्न)द्रौ रामगिरी पर्वते कतिचित् अष्टौ मामान् नीत्वाऽतिकाप । कीदृशो यक्षः ? अबलाविप्रयुक्तः, स्त्रीविवर्जितः । पुनः कीदृशः ? कामी, व्यसनाभिभूतचित्तः । पुनरपि कीदृशः ? कनकवलय(य)13भ्रशरिक्तप्रकोष्टः । कनकवलयभ्रंशेन पतनेन14 रिक्तौ प्रकोष्ठौ कलाचिकाप्रदेशौ15 यस्य सः । कीदृश मेघम् १ आश्लिष्टसानुम् । आश्लिष्टान्यालिङ्गिनानि सानूनि शिखराणि, येन सः, तम् । पुनः कीदृशं मेघम् ? वप्र. क्रीडापरिणतगजप्रेक्षणीयं, वाकोडायां तटाघात केलो परिणतस्तियंग दत्त(न्त)प्रहारो योऽसौ। गजस्तद्वत्प्रे क्षणीय तम् । कदाऽपत्र(श्य)16 आषाढस्य प्रथमदिवसे । मकारोऽलाक्षणिकः । अः कृष्णस्तस्य दिवसोऽदिवसस्तस्मिन् अदिवसे17 । आषाढशुक्ले18 एकादश्यां मेघ ददश । कालिदासस्यापि अयमभिप्रायो ज्ञायते । यतः "श्या(शा)पान्तो मे भुजगशयनादुस्थिते शाग्रङ्ग)पाणौ," तत्र शापान्तो वर्षान्तश्च भावी । कोह मेघ १ प्रथ विस्तीर्णम् । एके पण्डिता प्रथमदिवसे, आद्य प्रतिपद्दिन व्याकुर्वते तदिह विरुद्धम् । कथं ? तत्र गिरी अष्टौ मासान् अतिवाह्य मेघं दृष्टवान् । शेषाश्चत्वारो मामा वर्तन्ते । प्रतिपद्ग्रहणाश्चत्वारो मासाः, पञ्चविंशतिदिनैरधिकतरां(रा)19 सम्पद्यन्ते । अपरे प्रथमदिन पूर्णिमादिनमङ्गीकृत्य व्याकुर्वते , तदपि न संघटते । चत्वारो मासा: पञ्चदिनैरूना:20 स्युः । अत एकादशीदिन चेतसि चमत्कार करोतीति शेय तज्ञैः(ज्जैः)21 ॥२॥
तस्य स्थित्वा कथमपि22 पुरः केतकाधानहेतोरन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः कण्ठाग्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥
राजराजस्य धन (न)दस्य23 । अनुचरः चिरचिरकाल दध्यो चिन्तयामास । किं कृत्वा ? तस्व मेघस्य पुरत:24 अग्रतः कथमपि महता25 कष्टेन स्थित्वा । किं विशिष्टस्य तस्य ? केतकाधानहेतो:26 केतकस्याधीन, तस्य हेतु: कारण, तस्य । कीदृशो अनुचरः १ अन्तर्बाष्पः अन्तमध्ये बापो, नेत्राम्बु, रोदन', यस्य स । युक्तो[s] यमर्थ: । मेघालोके जलददर्शने सुखिनोऽपि वल्लभासहितस्यापि चेतश्चित्त अन्यथावृत्तिभवति , विपर्यस्तं27 जायते । कण्ठाश्लेषप्रणयिनि जने दरसंस्थे किं पुनर्वाच्य ? कण्ठालेषे कण्ठालिङ्गने प्रणयो यस्य सः तस्मिन् ॥३॥
प्रत्यासन्ने नभसि 28दयिताजीवितालम्बनाथी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् । स प्रत्यत्रैः कुरजकुसुमैः कल्पितार्घाय तस्मै । प्रीतः प्रीतिप्रमुखवचनं स्वागत व्याजहार ।।३।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org