________________
महाकवि कालिदास - विरचितं
मेघदूतम्
लक्ष्मी निवासकृत - शिष्यहितैषिणीटीका समेतम्
पूर्वमेघः
श्री भगवत्यै नमः | अत्र श्रीकालिदासः वर्षाकालमा ( श्रित्य विप्रलम्भरस (सं) वर्ण' [य]निह (द) माह |
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगांमतमहिमा वर्षभोग्येण भर्तुः । यक्षश्चके जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु || १ ||
कश्चित् अनिर्दिष्टनामा यक्षो गुह्यकः रामगिर्याश्रमेषु वसतिं निवासं चक्रेऽकरोत् । रामगिर (रि १)ण्डकारण्यस्तस्याश्रम (मा) रामगिर्याश्रमास्तेषु । विरहिणौ { हिरण) कः 1 । कलितान्तःकरणतया एकत्र!वस्थान ं न स्यात् । अतश्चाश्रमेषु बहुवचनम् । कीदृशो यक्षः १ भर्तुः धन' (न)दस्य 2 शापेन अस्तङ्गमितमहिमा गत माहात्म्य[ : ] अतो निजपुरीमपहाय + तत्र स्थितवान् । पुनः कीदृश: ? स्वाधिकारप्रमत्तः स्वाधिकारान्निजन्यापारात् प्रमत्तः स्वाधिकारप्रमत्तः । निजज्जायान्यसति (नि) स्वात् । कीदृशेन शापेन ? कान्ता विरहगुरुणा । कान्ताया' विरहगुरुणा । कान्ताया विरहः कान्ताविरहः । कान्ताविरहेण गुरु (ग) रीयान् तेन । अथवा - कान्ताविरह एवं (घ) गुरुराचार्यः कान्ताविरहगुरुस्तेन
विरहगुरुणा । पुनः कीदृशेन १ वर्ष यावद् भुज्यते वर्षभोग्यस्तेन । अथवा वर्ष भारत क्षेत्र तत्र भुज्यते वर्षभोग्यस्तेन । किंविशिष्टेषु आश्रमेषु ? जनकतनयास्नानपुण्योदकेषु - जनकतनयास्नानेन शीता (त) मज्जनेन पुण्याणि (नि) पवित्राणि उदकानि येषु तेषु । रामसन्निधावपि शी (सी) - ताग्रहण ं तच्छीलप्रथनाय 7 । पुनः किंविशिष्टेषु आश्रमेषु १ स्निग्धा अरुक्षा स्था (च्छा) या तरवो येषु तेषु । पूर्वो(र्वा)परदिग्भागे भाजत्यवि 10 सवित्त (त) रि येषां छाया न परिवर्तते छायातरवः । सर्वत्र 11 मन्दाक्रान्ता वृत्तं प्रवासविप्रलम्भो रसः ॥१॥
Note 1: [The readings in the text of the Meghadūta given here, follow the Mss B. &C. Ms. A gives only प्रतीकs. At times the commentary gives a different reading when compared with the verse quoted. We have noted this.
Note 2: () indicate correction; {} indicates omission and [] indicates addition,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org