SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Smt. Nilanjana S. Shah 43 पद्भ्यामूरूयुगं विभज्य भुजयोर्मध्यं निपीड्योरसां पार्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विलुप्याधरम् । संसुप्तानवबोध्य युष्मदहितान्भूयोऽपि भुङ्क्ते वने कि कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना ॥ . 44 प्रथममरुणच्छायस्तावत्ततः कनकाकृतिः तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । प्रभवति ततो ध्वान्तक्षोदक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविमंगलाञ्छनः ॥ 45 भेकैः कोटरशायिभितमिवक्ष्मान्तर्गतं कच्छपैः पाठीनैस्तनुपङ्कपीठलठनायस्मिन्मुहुर्मूच्छितम् । तस्मिन्नेव सरस्यकालजलदेनागत्य यच्चेष्टितं . . येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ 46 मज्जन्मातङ्गहस्तच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धाङ्गनानां कुचयुगविलसत्कुङ्कुमा सङ्गपिङ्गम् । सायं प्रातर्मुनीनां कुशकुसुमचयच्छन्नतोरस्थलीकं पायाद्वो नर्मदाम्भः करिकरमकराकलान्तरंह स्तरङ्गम् ॥ 47 तटमुपगतं पद्म पद्म निवेशितमाननं प्रतिपुटकिनी पत्रच्छाय प्रतिक्षणमासितम् । नयनसलिलैरुष्णरुष्णीकृता जलवीचयो जलदमलिनां हंसेनाशां विलोक्य गमिष्यता ॥ 48 तेषां त्वं निधिरागसामसहना मानोन्नता साप्यतो गन्तव्यं भवता न तद्गृहमिति त्वं वार्यसे यासि चेत् । गाढं मेखलया बलान्नियमितः कर्णोत्पलेनाहतः क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ॥ 49 निरानन्दः कौन्दे मधुनि विधुरो बालबकुले रसाले सालम्बो लवमपि लवङ्गे न रमते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy