SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 130. Smit. Nilanfanaa S. Shah ... चाऽभ्यन्तरे . ___ 28 सूर्यो धामवतां न किं न किमयं प्रह्लादकश्चन्द्रमा गम्भीरो न किमम्बुधिः क्षितिभृतां रामः स जेता न किम् । किं त्वेकैकगुणस्तुतौ न हि वयं शक्तास्तदेतद्गुण-- श्रोतृणां सुमहोत्सवाय नृपते त्वामेकमेव स्तुमः ॥ 29 स्वामिन्नम्बुजनाथ धूर्जटिशिरश्चूडामणे चन्द्रमः पादौ वां प्रणतोऽस्मि साधु वदतं क्षत्रप्रसूति युवाम् । राजा यधुपसेविताधिरखिलक्ष्मापालचूडाशतै-- रासीदस्ति भविष्यति क्षितितळे श्रीभोजदेवोपमः ।। 30 यस्याधों गगनं रसातलमुपर्यम्भोधयोऽभ्यन्तरे यत्प्रापश्चिमदक्षिणोत्तरदिशः कृत्वाऽन्यथा वर्तते । यस्य ध्वान्तमनुष्णरश्मिरुचयो नीलास्तथार्कोपला . देव स्वयशसोऽद्भुताद् भुवनतस्तस्य स्तुतौ के वयम् ॥ 31 रामः सैन्यसमन्वितः कृतशिलासेतुर्यदम्भोनिधेः पारं लछितवान्पुरा तदधुना नाश्चर्यमुत्पादयेत् । एकाकिन्यपि सेतुबन्धरहितान्सप्तापि वारांनिधीन् हेलाभिस्तव देव कीर्तिवनिता यस्मात्समुल्लंघति ॥ . 32 लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसङ्गमे देव प्रेष्यजनस्तवैव भवतो भर्तव्यतां वाञ्छति । नन्वतन्मरणान्न किं नु मरणं कायान्मनोविच्युतिदीर्घ जीव मनःस्वदन्रिकमले कायोऽत्र नः केवलम् ॥ 33 वर्षासंभृतपीतिसारमवशं स्तब्धाङ्ग्रिहस्तद्वयं भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्ग स्थितम् । मुग्धा व्याधधधृस्तवारिनगरे शून्ये चिरात्सप्रति स्वोस्पस्कृतिमुष्टिसायकधिया साकूतमादित्सति ।। 34 बाल्मीकेः कतमोऽसि कस्त्वमथवा व्यासस्य येनेष भोः इलाध्यः स्यात्तव भोजभूपतिभुजस्तम्भस्तुतावुद्यमः ॥ पंगुः पर्वतमारुरुक्षसि विधुस्पर्श करणेहसे दोभ्यां सागरमुत्तितीर्षसि यदि ब्रमः किमत्रोत्तरम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy