________________
129
Chittapa and his Subhoșitas 21 पर्यको राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो
भग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यानदा राम्बुपट्टः । संग्रामत्रासताम्यन्नरपतिसुयशोराजहंसाम्बुवाहः
खडूगः क्षमासौविदल्लः समिति विजयते मालवाखण्डलस्य ।। 22 मातुः खेदमयं ततान पृथुकः क्रोडेऽपि धायाश्चरन्
रागाढयस्तरुणः पुरन्दरपुरश्रीन्यस्तकण्ठग्रहः । ज्यायानप्यभजस्पितामहपदं नित्याविनीतस्तनू
जन्मा ते यशसां गणस्तदुचितवीडोऽसि तत्कीर्तनात् ॥ 23 मिथ्या देव भुजेन तेऽल्पविभवः कल्पद्रमः स्पर्धते
नह्येनं भुवनत्रयाभयमहासत्री कृपाणोऽचति । चिन्त्यस्तत्रभवान् स कल्पविटपी यस्यौतदेकार्णवे
कल्पान्ते विनिवेश्य विश्वमखिलं छायासु शेते हरिः ॥ 24 मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं .
चक्राङ्क वह पादयुग्ममनि दोण्णा समभ्युद्धर । लक्ष्मी भ्रनिकटे निवेशय भव ज्यायान् दिवौकस्पते-- विश्वान्तःकरणैकचौर तदपि ज्ञातो हरिः खल्वसि ॥ 25 सङ्कल्पेऽङ्कुरितं द्विपत्रितमथ प्रस्थानवेलागमे मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैरुद्गतम् । भ्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देवे त्वयि ।
प्रोत्फुल्लं फलितं च संप्रति मनोराज्यद्रुमेणाध मे ॥ 26 सप्ताम्भोधीपिबद्भिर्दिशि दिशि सरितः स्वादयद्भिस्तडागव्यूह गण्डूषयदिभगगनतलगतां जाह्नवीमुल्लिहद्भिः । यात्रायां यस्य हेलाचलतुरगचमूशश्वदुद्धृतधूली
रैरैकाब्धिमात्रव्ययजनितमदो लज्जितः कुम्भजन्मा ॥ 27 समाजे सम्रानां सदषि विदुषां धाम्नि धनिनां निकाये नीचानामपि च रमणीनां परिषदि। कथंचिद्यत्र स्मः क्षणमतिथयस्तत्र शृणुमः स्फुरद्रोमोझेदाः सुभग भवतः पौरुषकथाः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org