________________
128
Smt. Nilanjana s. Shah
14 कालिन्दि ! बहि कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्मा
छत्रोमें नर्मदाहं त्वमपि वदसि में नाम कस्मात्सपत्न्याः । मालिन्यं तर्हि कस्मादनुहरमिं मिलत्कज्जलैर्मालवीनां
वाष्पाम्भोम्भिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः ॥ . 15-किं वातेन विलचिता न न महाभूतार्दिता किं न न
श्रान्ता किं न न संनिपातलहरीप्रच्छर्दिता किं न न ।
तरिक मुह्यति रोदिति श्वसिति च स्मेरं च धत्ते मुखं .. दृष्टः किं कथमप्यकारणरिपुः श्रीभोजदेवोऽनया ।। 16 दिशः पटपटायन्ते गगनं लोहितायते ।।
कर्णतालास्तसिन्दूरे हास्तिके यस्य सर्पति ॥ 17 देव ! त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुज
स्तस्मिन्कालभुजङ्गमो निवसति स्फूर्जत्कृपाणच्छलात् । एष स्वाङ्गमनर्गल रिपुतरुस्कन्धेषु संघट्टय
दीर्घ व्योमविसारिनिर्मलयशो निमोकमुन्मुञ्चति ॥ 18 देव त्वद्भुजयोबलं न गदितुं वाचा वयं शक्नुमः । कुर्वाणा हृदयेऽपि तत्पुलकिताः प्रत्यङ्गमेते वयम् । शक्ता सैव पुनस्तवासिपतनच्छिन्नद्विषत्कन्धरा- .:: रन्ध्रोद्वान्तसमीरभैरवरबा युद्धस्थली जल्पितुम् ॥ . 19 दृप्तोदामकरीन्द्रवृन्दशितिमच्छायेषु नीरार्थिषु .
पाथोदेषु तटाभिघातदिवसादारभ्य नस्ताम्यति । नूनं मालवराजदिग्जयविधौ तैः पीतमम्भोनिधे
औद्यद्गन्धगजस्रवन्मदनदीगन्धानुविद्धं पयः ॥ 20 द्वीन्द्रं भाति जगत्तिधाम गगनं विश्वं चतुर्दैवतं : पञ्चाम्नायमिदं वाङ्मयमयं षट्सायको मन्मथः । सप्ताशः परिवत्सरोऽष्टजलधिस्फारं धरामण्डल दिक्चक्र नवनायकं क्षितिपतिश्रेष्ठ त्वयि भाजति, ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org