________________
५८
श्रीन्यायसिद्धान्तप्रवेशकन्थिका यत्त्वया घटाऽभावीयप्रतियोगितावच्छेदकपर्याप्त्यवच्छेदक किमिति पृच्छन्तं मां प्रति पर्याप्त्यवच्छेदक पर्याप्तित्वमेवेति महता समारम्भेणोत्तरितम् ! ।
नहि नहि । गन्धवत्त्वलक्षणस्य लक्ष्यतावच्छेदकं पृथिवीत्वं भवति ।
एवं नु किल तर्हि प्रकृते घटाऽभावीयप्रतियोगितावच्छेदकतापर्याप्त्यबच्छेदकं पर्याप्तित्वं भवेदन्यद्वा ! ।
इदानीं प्रबुद्धोऽस्मि । नहि पर्याप्तित्वं, पर्याप्त्यवच्छेदक, किन्तु यत्र घटत्वे पर्याप्तिस्तवृत्तिधर्म(ों) घटत्वत्वं एकत्वं वा अवच्छेदकं भवेत् । परन्तु.... " निःशकं पृच्छ । मा भैषीः ।
पृच्छयेत (पृछयते) । घटसामान्याऽभावप्रस्तावे कोऽयमप्रकृत इवावच्छेदकपरम्पराप्रस्तावो वर्धमानहनुमल्लाङ्गुलमिव ।
अस्त्वेतत् किमपि । परं त्वयाऽवगतं न वा ? ।
श्रीमदनुग्रहादवगतम् । परं किमनेनः घटाऽभावीयप्रतियोगिताऽवच्छेदकतापर्याप्त्यवच्छेदकेन ज्ञातेन घटसामान्याऽभावे भविष्यतीति न जानामि ।
उच्यते । येयं घटाऽभावीया घटनिष्ठा प्रतियोगिता दृश्यते, सेदानी घटत्वगतैकत्वे नेया। पश्यामि तु किल तव कौतुकम् ।
____एवं वा, ज्ञातं तर्हि शनैः शनैरेतावता प्रबन्धेन बुद्धिवर्धनं दयालुभिः कृतम् । उच्यते । या हि घटाऽभावीया प्रतियोगिता स्वरूपसम्बन्धेन घट(टे) वर्तते, सैवाऽनेनाऽखण्डदण्डायमानेन घटत्वगतैकत्वे विराजमाना परिदृश्यते । __ 'अनेनाऽखण्डदण्डायमानेन' इति किम् ? । नाऽयमालस्याऽवसरः । स्पष्टं वद ।
उच्यते । स्वावच्छेदकतापर्याप्त्यवच्छेदकत्वसम्बन्धेऽपि घटाऽभावीया प्रतियोगिता घटत्वगतैकत्वे गतेति स्पष्टं निरीक्ष्यते ।
साधु साधु । फलितो में श्रमद्रमः । एवं तर्हि घटसामान्याऽभाव इत्यस्य न 'घटनिष्ट(ष्ठ)प्रतियोगिताकाऽभाव'(इत्यर्थः) । किन्तु घटत्वगतैकत्वनिष्ट(ठ)प्रतियोगिताकाऽभाव' इत्येवार्थः । प्रतियोगितायां घटत्वनिष्टे. (प्ठे)कत्वनिष्ट(ठ)त्वं च पूर्वोक्तसम्बन्धेनेति ।
अहो ! कोऽयं चमत्कार इन्द्रजाल इव ।
न चमत्कारः । इममनुगमप्रकारमाहुरन्नैयायिकाः । एवमेव सर्वत्र बोध्यम् । एवं क्रमेण घटाऽभाव इत्युक्तौ प्रागिव घटपटोभयाऽभाव उक्तो भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org