SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ संपा० मुनि शीलचन्द्रविजय केन सम्बन्धेन ? स्वरूपसम्बन्धेन । तस्या अवच्छेदकं किम् ।। घटत्वम् । प्रतियोगितावच्छेदकता च क्व ? न स्फुरति । किमरे ! मुसलाग्रबुद्धे ! बृहच्चित्रमेतत् । यतस्त्वयैवाधुनोक्तं 'प्रतियोगितावच्छेदकं घटत्वम्' इति । यदा च मया 'प्रतियोगितावच्छेदकता च क्व' इति पृष्टं तदा 'न स्फुरतो ति वदसीति ! . सत्यमेवैतत् । किम् । "पश्यामीमं दोषं, तथापि किं' कर्त्तव्यं भो गुरो ! ? । उपदिष्टां नीलसरस्वतीं तारामाराधय । तेन ज्ञानावरणभङ्गः स्यात् । ... अहो ! कस्तारामहिमा वाच्यः । यतो नाममात्रश्रवणेनेदानों सजातप्रकाशः सर्व विश्वं वच्मीत्यागतं धैर्यम् । श्रीगुरुचरणप्रसादोऽयम् । शृणुत । घटाऽभावप्रतियोगितावच्छेदकता घटत्वे पर्याप्ता, नाऽन्यत्र । सत्यमुक्त भवता । तर्हि वद-प्रतियोगितावच्छेदकता पर्याप्त्यनुयोगिता क्व वर्तते है । तत्रैव । तत्र कुत्र ? स्पष्टतया बद । घटत्वस्य घटाऽभावीयप्रतियोगितावच्छेदकत्वात् पर्याप्त्यनुयोगिता, तं विहायाऽन्यत्र कुत्र गच्छेत् । सत्यम् । वद तर्हि--घटाऽभावीयप्रतियोगितावच्छेदकतापर्याप्त्यवच्छेदकं किमस्ति । अत्र किं वक्तव्यम् ? । पर्याप्त्यवच्छेदक पर्याप्तित्वमेवास्ति । शिरःकम्पेनाऽभिनन्दनीयमेतत् ! यतः किमरे ! गन्धवत्त्वलक्षणस्य पृथिवीनिष्ट(ष्ठ)लक्ष्यतायाः किमवच्छेदकमिति पृष्टे लक्ष्यतात्वमिति ब्रूते ! Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520759
Book TitleSambodhi 1980 Vol 09
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy