SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ संपा० मुनि शोलचन्द्रविजय पश्य,घटपटोभयाऽभावीया प्रतियोगिता न प्रोक्तसम्बन्धेन घटत्वगतैकत्वेऽस्ति । किन्तु घटत्वपटंपत्व(पटत्व)घटपटोभयत्वैतद्गतत्रित्वेऽस्तीति तद्वारणम् । सम्बन्धकुक्षौ अमावस्याऽऽवासान्नाऽनवस्थोत्प्रेक्षाऽपि । इति सामान्याऽभावः ॥ अथ वैशिष्ट्याऽभावोभयाऽभावौ पूर्वमुपदिष्टौ तत्रास्ति मे संशयः । कः कः । निवेद्यते । 'नीलघटो नास्तो'त्ययमभावो नीलत्वविशिष्टधटत्वावछिन्नप्रतियोगिताक इत्युक्त्या 'नीलधटो नास्ति' इत्येतस्याऽभावस्य प्रतियोगिता किन्न नीलत्वघटत्वोभयावच्छिन्ना ? अस्ति चेत्, कथमयमुभयाऽभावान्नीलघटौ न स्त' इत्यस्माद भिन्न ? इत्येकः । अपरश्च 'नीलधटो नास्ति' इत्यस्याऽभावस्य प्रतियोगिता नीलघटे कुतो नाङ्गीक्रियते ! कुतो वा नाङ्गोक्रियते च पुनर्घटत्वमात्रं तदवच्छेदकम् ? इति । ___ समुद्भूतस्त्वे(स्ते) न्यायशास्त्रानुकूलो बुद्धयङ्कुरः । यतोऽभिज्ञ इव पृष्टवानसि । तर्हि सामाधेय मनः । उच्यते । 'नीलधटो नास्ति' इत्यभावस्य न नीलत्वं घटत्वस्येव प्रतियोगिताबच्छेद कं, तस्य सामानाधिकरण्यसम्बन्धेन घटत्वस्य विशेषणत्वात् । तवं नीलत्वे किमायातम् ! - 'अवच्छेदके यद्विशेषण तदवच्छेदकताऽवच्छेदकमिति गीयते' इति वृद्धो पर स्या नोलत्वं नीलघटाऽभावस्य प्रतियोगितावच्छेदकताऽवच्छेदकं जातमिति न नीलघटाऽभावो नीलघटोभयाऽभावादभिन्न इति पश्य । गृहीतम् । ममापि तत्रभवतः प्रसादात् स्फुरितमस्ति, तद्वाच्यं वा ! निःशङ्कः । उच्यते । नीकत्वस्य घटत्वस्येव घटविशेषणत्वेऽपि नीलत्वघटत्वयोश्च प्रतियोगितावच्छेदकत्वेऽपि च न नीलघटाऽभावस्य नीलघटोभयाऽभावादभेदः सम्पयते । यतोभया(यत उभया)ऽभावीयप्रतियोगितावच्छेदकता नीलत्व-घटत्व-नीलघटोभयत्वैतत् त्रिषु पर्याप्ता । तत्पर्याप्त्यवच्छेदकं च तद्गतत्रित्वं भवति । नीलघटाऽ भावोया प्रतियोगिताऽवच्छेदकता तु नीलत्वघटत्वयोरेव, तत्प्रतीतावुभयत्वस्याऽभानात् । तथा तत्पर्याप्त्यवच्छेदकं च नीलत्वघटत्वोभयगतं द्वित्वमेवेति किमर्थ नौलत्वं सामानाधिकरण्यसम्बन्धेन घटत्वस्य विशेषणं कर्तव्यमिति ! Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520759
Book TitleSambodhi 1980 Vol 09
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1980
Total Pages304
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy