________________
संपा• मुनि शीलचन्द्रविजय प्रतिबन्धककोटिः पूर्वे( 4 ) यथोपपादिता, सा सत्र भवतामरुचिकरा संवृत्तेति मे तृष्णीम्भावो, न त्वन्यथा ।
___क एष ते स्वभावः, यत् कुत्रचित् फु(स्फु)रति कुत्रचिन्नेति ? । घटाऽभाव इत्यत्राऽभावपद ममभिव्याहाराद् घटपदस्य घटनिष्ट(ष्ठ)प्रतियोगिताके लक्षणेति त्वयैवोपपादितं, अथ च 'संयोगेन घटवद्भूतलम्' इत्यत्र सन्तमपि 'ज्ञान' पदसमभिव्याहारं न पश्यसि ! आश्चर्यमेवैतत् ।।
प्रबुद्धोऽस्मि । वमोदानीम् । शृणुत । संयोगसम्बन्धावच्छिन्नघटस्वावच्छिन्नघटनिष्ट(ष्ठ )प्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यतानिरूपितविशेष्यिताशालिसंयोगेन घटवभूतलमिति ज्ञानं, संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न' घटनिष्टा(ठ)प्रतियोगिताकाऽभावनिष्ट(ष्ठ)स्वरूपसम्बन्धावच्छिन्नप्रकारतानिरूपितभूत - लवाववच्छिन्नविशेष्यतानिरूपितविशेष्यताशालि संयोगेन घटाऽभावबद्भूतलम्' इति ज्ञान प्रति प्रतिबन्धकमिति प्रतिबध्यप्रतिबन्धकभावः पर्यवस्यति । एवं च 'संयोगेन घटवभूतलम्' इति ज्ञानोत्तरं 'संयोगेन घटाऽभाववद्भुतलम्' इत्येव
झानं न भवति, संयोगेन घटपटोभयाऽभाववद्धतलमिति तु निर्विघ्नं भवेत् । पटपटोभयाऽभावस्य घटाऽभावत्वेऽपि न घटत्वावच्छिन्नप्रतियोगिताकत्वं, किन्तु घटपटोभयत्वावच्छिन्नप्रतियोगिताकत्वम् । तथाविधाऽभाववत्ताबुद्धिं प्रति तु 'संयोगेन घटपटोभयवद्धतलम्' इत्यै(त्ये)व प्रतिबन्धकं भवेदित्यनवधम् ।।
- चिर जीवतु भवान् । यतः साधूपपादितम् । अस्त्वेतत् । एवं चाऽभावस्य द्वो सम्बन्धी वेदितव्यौ । एकः प्रतियोगितावच्छेदकः, अपरश्च वृत्तिनियामकः । भाषस्तत्र तत्र भियते, यथा-'संयोगेन "घटाऽभाव' इत्युक्तो संयोगः प्रतियोगितावच्छेदकः, 'समवायेन घटाऽभाव' इत्युक्तो समवाय इति । द्वितीयो(य)स्तु सर्वत्र एक एव- स्वरूपसम्बन्धः, अभावस्य स्वरूपेणैव वृत्तः ।
स चाऽभावोऽनेकधा । सामान्याऽभावः१, वैशिष्टयावच्छिन्नप्रतियोगिताकः २, व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकः ३, अन्यतराऽभावः ४, सामान्यरूपेण विशे याऽभावः ५, विशेषरूपेण सामान्याऽभावः ६, व्यधिकरणसम्बन्धावन्छिन्नप्रतियोगिताकः ७, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताक (८) इत्यादि-" मेदात् ।
यथा 'घटो नास्ती'त्ययमभावः सामान्याऽभावः । अस्य प्रतियोगिताया घटत्वरूपसामान्यधर्मेणैवावच्छिन्नत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org