________________
४८
श्री न्यायसिद्धान्तप्रवेशकन्थिका
नाशात् श्येनादिसंयोगजनक क्रियानाशेऽपि तस्य नाशादर्शनात् । किन्तु विभागरूपगुणान्तरादेव भवतीति ।
नन्वेवं सति संयोगं प्रति क्रियाया कथमसमवायिकारणत्वम् ? संयोगनाश जनकनाशप्रतियोगित्वाऽभावेन समवायिकारणसदृशत्वाऽभावात् ।
सत्यम् । अत एव पूर्वाचार्यै: 'तत्रासन्नं जनकम्' इत्य ( ये ) वाऽसमवायिकारणलक्षणमुक्तम् । तच्च घटत एव । मेषसंयोगरूपकार्यसमवायिकारणे मेषे क्रियाया आसन्नत्वात् समवायेन सत्वात् । अस्माभिस्तु असमवायिकारणपदस्य प्रवृत्तिनिमित्तमात्रमुक्तम् । तेन माऽस्मदुक्तेर्व्याघातः शङ्क्यः । शास्त्रकारा हि तथैव प्रायशो वदन्ति । पश्य, पृथिव्यादीनां गन्धवतीत्यादि लक्षणानि न सर्वासु पृथिव्यादिषु वर्त्तते (र्त्तन्ते) । उत्पन्नविनष्टपृथिव्यादिषु कुत्र वर्त्तते गन्धः ? उत्पन्नं द्रव्यं क्षणमात्र निर्गुणं निष्क्रियं च तिष्ठतीति नियमात् । तस्मादेवं जातीयकानां लक्षण वाक्यानां नाति तिलक्षणे तात्पर्यमवसेयम् । इदं च प्रकृते समवायिकारणसादृश्यावच्छेदकत्वयास्वान्यतरजातिमत्त्वे समवायिकारणसदृशमित्यस्य तात्पर्य" गृ (प्रा) ह्यम् । कथं घटत इति चेत् ? ।
इत्थम् । पूर्वोक्तप्रकारेण घटकार्यसमवायिकारण कपालसादृश्यं कपालसंयोगेऽस्ति । तदवच्छेदकं गुणत्वं जातं वा न वेति स्वयमेव विचारय ।
विचारितम् । कपालसंयोगस्य गुणत्वात् तद्वृत्तिसादृश्यावच्छेदकं गुणत्वं जातमिति ।
तहि इदं विचारय - अवयविसमवेतगमनादिकियां प्रति पादसमवेतगमनक्रिया समवायिकारणमस्ति न वा ?
अस्ति । यथा घटरूपं प्रति कपालरूपमिति ।
पश्य तर्हि, अवयविक्रियानाशोऽवयवक्रिया नाशादेव भवतीति" । अवयविक्रियानाश जनकनाशा (शो)"S" वयविनाशो" ऽवयवक्रियानाशश्चेति प्रोक्तरूपेणाऽवयविक्रिसमवायिकारणस्याऽवयविनः सादृश्यमवयवक्रियायां वर्त्तत इति सादृश्यावच्छेदकं क्रियात्वं तच्च संयोगजनक क्रियायामध्यस्तीति काडव्याप्तिशङ्का ?
अपरं प्रष्टव्यं वा ?
सुखेन प्रष्टव्यम् ।
सादृश्यं यदि जातिघटितं तदा ज्ञानादीनामिच्छाद्यसमवायित्वं कुतो न ? | तथा हि-इच्छा तस्यैव"जायते यश्चेष्टत्वेनेष्टसाधनत्वेन वा पूर्व ज्ञातं भवति । यथा'ज्ञानं मदिष्टं' 'गुरुश्च ज्ञानसाधनम्' इति । येन प्रथमतो ज्ञानं तस्यैव मे ज्ञानं
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org