________________
संपा० मुनि शीलचन्द्रविजय
ननु परमाश्चर्यमेतत् - ' चक्रे समवायिकारणघटित सामग्रयभावेन घटश्चक उत्पद्यत इति नोच्यते, कपाले दण्डादिनिमित्तकारणघटित सामग्रयभावेऽपि तत्रोस्पद्यते घट इति तूच्यतेऽभिज्ञैः' इति ।
यथान्यैश्छात्रैः कपाले उत्पद्यमानमपि घटमदृद्वैव लौकिकापेक्षयाऽधिकतया संयोगेन चक्रे घट उत्पन्न इति ज्ञात्वा तथोच्यते, तथा तवाऽद्यापि छात्रत्वाद् भवति तथा मतिः । पश्य, समवायेन घटाधिकरणे कपाले तादात्म्येन कपालं समवायेन कपाळसंयोगश्च यथा वर्त्तते, तथा स्वसंयुक्तत्वसम्बन्धेन चक्रं स्वजन्यभ्रमिवत् संयुक्तत्वसम्बन्धेन स्वजन्यभ्रमिजन्यभ्रमिवत्तासम्बन्धेन वा दण्डोप्यस्तीति सर्वाऽपि सामग्री कपालेऽस्तीति किमाश्चर्यं तवास्तीति न जानीमो वयम् 1
ननु तर्हि घटं प्रति चक्रस्य कारणता स्वसंयुक्तत्वसम्बन्धावच्छिन्ना, दण्डस्य च स्वजन्यभ्रमिजन्यभ्रमिवत्तासम्बन्धावच्छिन्ना वक्तव्येति समायातम् । पूर्वं तु संयोगेन घटं प्रति तादात्म्येन चक्रं स्वजन्यभ्रमिवत्तासम्बन्धेन दण्डश्च कारणमित्युपदिष्ट, तेन मे संशयो जातः ।
सत्यम् । प्राथमिकोपदेशः स्थूलदृष्टचैव क्रियते वृद्धैरिति तथैवोपदिष्टमस्माभिरपि । तेन दुर्मना मा भव ।
तथा वा । इतः परं चेदवशिष्टं तदपि प्रकाशयन्तु ।
४७
प्रकाश्यते । शृणु ँ । समवायिकारणं हि कार्यस्याऽत्यन्तमन्तरङ्गं ततो बहिरङ्गमसमवायिकारणं, ततोऽपि बहिरङ्गं निमित्तकारणं पश्यात ( पश्य । अत ) एव सर्वैरप्याचार्यैः समवाय्यसमवायिनिमित्तभेदात् त्रिविधं कारणमित्येवं क्रमेणोक्तम् ।
ननु कारणानामन्तरङ्गबहिरङ्गभावं ज्ञात्वा किं करणीयम् ! एतावताऽपि नाऽवगतं भवता ?
विचारितं, आगतं मनसि यदुक्तं तत्रभवद्भिः ' कार्याधिकरणं तदेव ग्राह्यमित्यादि' तत्रैवोपयुज्यत इति ।
Jain Education International
साधु विचारितम् । अपर शृणु । 'सकलभावकार्य प्रति समवायिकारणं द्रव्यमेव भवति । असमवायिकारणं गुणः कर्म च । तत्रापि द्रव्यकार्ये प्रति गुण एव । गुणकार्य प्रति गुणः कर्म च । गुणं प्रति गुणस्याऽसमवायिकारणत्वं तु अधुनैव गतम् । विभागसंयोगं प्रति च क्रियाया एवाऽसमवायिकारणत्वम् । अत्रदेमवधेयम् । संयोगरूपगुणकार्यस्य नाशो न समवायिकारणनाशाद् भवति, संयोगसमवायिकारणयोर्मेषयोः सतोरेव संयोगनाशदर्शनात् । नाप्यसमवायिकारणक्रिया
For Personal & Private Use Only
www.jainelibrary.org