________________
श्रीन्यायसिद्धान्तप्रवेशकान्थिका
तथा हि - ' यत्समवेत मुत्पद्यते' इत्यस्य यस्मिन् कपालादो समवायसम्बन्धेन विद्यमानं सदेवाssधक्षण सम्बन्धवद् भवाते, न तु पूर्व विद्यमान प्रथमप्रकाशवद् भवतीति ।
४४
ननु किं कारणं नैय्या (या) विक्रोक्तं यत्समवेतोपाद्ये (धमे ? ) व साधु, न साङ्ख्योकं पूर्व सदेव प्रथमप्रकाशवद् भवतीति ? |
सत्यम् । मनो देयम् । किमुच्यते ! - पूर्वं स्वोपादाने - 'सदेवकार्य प्रथमप्रकाशवद् भवतीति' तत्रेदं पृच्छयते - किं प्रथमप्रकाशो घट इव पूर्व सन् आहोस्विदप्सन् ? | सच्चे (संश्चे) दुत्पत्तेः पूर्व स्वोपादानभूतायां मृदि (कुतो) न घटः प्रकाशते ? प्रथमप्रकाशविशिष्टस्य घटस्य सत्त्वात् द्वयोरपि पूर्व त्वया सत्या (त्वा ) ऽभ्युपगमात् । असच्चे ( असं चे ) त् प्रकाशः, तदा अलं सत्कार्यवादेन । प्रथमप्रकाशरूपकार्यस्याऽसत एवोत्पत्तिस्वीकारात् । तस्मात् साधु पूर्वाचार्यैः 'यत्समवेतम्' इत्युक्तम् । अस्माभिस्तु परमतखण्डनमण्डनादिविचारमुपेक्ष्य, केवलं समवायिकारणपदस्याऽन्वर्थं तामुपगम्य, "कार्यस्य समवायि सत् कारणं तत् समवायिकारणम्" इत्युक्तम् ।
प्रकृतं शृणु - घटं प्रति कपालद्वय संयोगोऽसमवायिकारणं भवति । तदयेश्व समवाविभिन्नं समवायिसदृशं यत्कारणमिति । सादृश्यं च कार्यनाराजनकनाशप्रतियोगित्वदघ (स्वध ) र्मेण । पश्य, घटकार्यस्य समवायि कपालद्वयं, तद्भिन्नः कपालद्वयसंयोगः । अथ च कपालद्वय सदृशोऽप्यस्ति । कारणं चाsस्तोति सोऽपनवायिकारणमित्युच्यते । घटनाशो हि कपालनाशाद यथा जायते ' तथा कपालद्वयसंयोगनाशादपि जायते " । एवं च घटरूपकार्य नाशजनको यो नाशः [स] कपालद्वय नाशस्तत्संयोगनाशश्च । तत्प्रतियोगित्वं कपालद्वये तरसंयोगे चाऽस्तीति कपालद्वय सदृशस्त्संयोगो जात इति विचारय ।
विचारितम् । कार्यनाशजनकनाशप्रतियोगित्वं यथा समवायिकारणे कपालद्वयेऽस्ति तथा घटनाशजनकनाशप्रतियोगित्वं कपालद्वय संयोगेऽप्यस्तीति कपालद्वयसंयोगो घटसमवायि सदृशस्तद्भिन्नोऽपि कारणं चाऽस्तीति सोऽसमवायिकारणमिति । परन्तु असमवायोत्यस्य न समवाय्यसमवायोति परित्यज्य समवाविभिन्नं समवायिसदृशं इति कुतो वाऽर्थः कृतः ।
सत्यम् । समवायिभिन्नं निमित्तकारणं दण्डादिरपि भवतीति तद्व्यावृत्तये समवायिसदृशमित्युक्तम् । हि दण्डादिनिमित्तकारणनाशाद् घटनाशो भवतोति न दण्डादो कार्य नाशजनकनाशप्रतियोगित्वेन समवायिसादृश्यमस्तीति
Jain Education International
.
For Personal & Private Use Only
www.jalnelibrary.org