________________
संपा० मुनि शीलचन्द्रविजय तद्वारणम् । एवं च असमवायिकारणमित्यत्र सादृश्यमेव नार्थः । तच्च मेदघटितमिति ज्ञापनार्थ समजायभेदा निवेशित इति न तु स्वातन्त्र्येणापि नार्थी भेदः प्रदर्शित इति तद्वैयर्थ्यशङ्कां मा कुरु ।
यथा घटं प्रति कपालद्वयसंयोगोऽपमवायिकारणं तथा घटरूपस्य कपालरूपमन्तराऽनुत्पत्तेस्तत् प्रति कपालरूपं कारणं वाच्यम् । यथा घटरूपनाशजनकनाशप्रतियोगी रूपसमवायी घटो भवति तथा कपालरूपमपि भवतोति कपालरूपं घटरूपस्योऽसमवायिकारणमिति तकेय ।।
अत्राऽपरमपि विभावय-प्तमवायेन घटरूपकार्याधिकरणे कपालद्वये कपालसंयोगः समवायेनाऽस्तोति कार्यतावच्छेदकः कारगावच्छे दुरुश्च समवाय एक सम्बन्धः । समवायेन रूपाधिकरणे घटे कपालरूपं न समवाये नास्ति, तस्य कपाल एव समवायेन सत्वात् । घट कपालयोः कार्यकारणयार्भेदात् कपाल रूपं समवायेन मास्तामिति तु नाशङ्कनोयम् । किन्तु स्वसमवायिसमवेतत्व सम्बन्धेन वर्त(त) इति समवायः कार्यतावच्छेदकः सम्बन्धः, कारणतावच्छेद कसम्बन्धस्तु स्वसमवायिसमवेतत्व सम्बन्ध इति विशेषः । एवं च सर्वत्राऽयं नियमः कर्तव्यः - "समवायेन अवयविगुणं प्रति स्वसमवायिसमवेतत्वसम्बन्धेनाऽवयवगुणः कारणम्" इति । ___ननु स्वसमवायिसमवायित्वसम्बन्धेन घटरूपाधिकरणे कपाले समवायसम्बन्धेन कपालरूपस्य सत्वात् स्वसमवायिसमवायित्वसम्बन्धः क र्यतावच्छेदकः, समवायस्तु कारणतावच्छेदका सम्बन्धोऽस्तु । किमर्थ तादृश एव नियमः कर्तव्य इति ।।
चिरं जीवतु भवान् । यतोऽत्यन्तं रहस्यं पृष्टवानसि । तथापि वच्मितदेव कार्याधिकरण प्राह्यं यत्र स्वस्वकारणतावच्छेदकसम्बन्धैः सर्वाणि कारणानि भवेयुः । पश्य, यदा समवायेन घटरूपस्याऽधिकरणं घटो गृह्यते, तदा तत्र घटरूपस्य समवायिकारणं यो घटः स स्वोयकारणतावच्छेदकोभूतेन तादात्म्येन सम्बन्धेन वर्तते, तोव कपाल रूपमपि स्वीय कारणतावच्छेदकोभूतस्वसमवायिसमवेतत्वसम्बन्धे नास्तोत न घटरूपोत्पत्तो बाधकम् । यदि त्वदुकपथा(पयेन) स्वसमवायिपमवायित्वसम्बन्धेन घट रूपाधिकरणं कपालं गृयते, तदा तत्र कपाले मसमवायिकारणं तु कपालरूपं स्वोयकारगतावच्छेदकत्वेनाऽभिमतेन समवायेन तु वर्तते, परन्तु समवायिकारणं घटः स्वोय कारणतावच्छेदकोभूततादात्म्यसम्बन्धेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org