________________
४२
___ श्रीन्यायसिद्धान्तप्रवेशकन्थिका पातात् । किन्तु इतरसर्वकारणसत्वे दण्डसत्त्वे घटसत्वं, इतर कारण सत्वे दण्डाऽभावे घटाऽभाव इत्येव ग्राह्याविति नाऽसम्भवः ।
ननु तथापि इतरकारणसत्त्वे दण्डसत्त्वेऽपि कस्यचित् प्रतिबन्धाद् (कुतश्चित् प्रतिबन्धकाद) यत्र घटो न जातस्तत्र कथमिति चेत् । तत्र प्रतिबन्धकाऽभावमपि इतरकारणसमुदायमध्ये प्रवेशय । किं न जानासि 'दण्डादिरिव प्रतिबन्धकाऽभावोऽपि कारणमस्ति' इति ? ।'
अत्रोदं परमवधातव्यम् -घटं प्रति दण्डादिरसाधारणं कारण, तन्मात्रस्यैव जनकत्वात् । कालादिस्तु साधारण कारणं कार्यमात्र जनकत्वात् । परन्तु . न केवलाऽसाधारणकारणान्नापि केवलसाधारणकारणात् किमपि 'न कार्य (किमपि कार्य) भवति इति विशेषसासप्रया कार्ये जननीये सामान्यसामनयपेक्षिता, एवं सामान्यसामग्रया कार्ये जननीये विशेषसामग्रयपेक्षितेति साधारणाऽसाधारणकारणयोः परस्परापेक्षेति ।
_नन्वत्र परमाश्चर्य पश्यामः, यत् कालादीनां साधारणकारणत्वमुपदिश्यते घटं प्रति चोच्यते । विप्रतिषिद्धमेतत् । यथा घटं प्रति दण्डः कारणमित्युक्त घटत्वावच्छिन्ना कार्यता प्रतीयते तथा घटं प्रति कालः कारणमित्युक्तेऽपि घटत्वावच्छिनैव का[य]ता प्रतीयते । कालनिरूपिता तु कार्यता न घटत्वावच्छिना, किन्तु कार्यत्वरूपसामान्यधर्मावच्छिन्नेति ।
साधु परिभावितं मेधाविना भवता । तथापि कालनिरूपितायाः कार्यत्वावच्छिन्नकार्यताया घटे सत्त्वेन घटं प्रतीत्युपदिष्टमस्माभिः । तेनेदमवगन्तव्यम्कालनिरूपित कार्यतायाः घटो धर्मी, तत्रैव घटत्वं वर्तत इति कालनिरूपितकार्यता घटत्वसमानाधिकरणा न तु घटत्वावच्छिन्नेति ।
आस्तां तावदेतत् , परं पृच्छामः-दिक्कालादीनां सदातनत्वात् सार्वत्रिकत्वाच्च यत्किमपि कार्य कस्यांचिदिशि कस्मिंश्चित् काले एव भविष्यतीति किमर्थ तेषां कारणत्वमनुमन्तव्यम् ! । किञ्चाऽन्वयव्यतिरेकाभ्याम् कारणत्वं सिध्यतीत्यभिहितं, तयाश्चाऽन्वयव्यतिरेकयाः सम्भावना बुद्धयात्मकत्वेन सदातनसार्वत्रिकभिन्न एव प्रसरात् , निश्चिते तु कालादावसम्भवः । अपिचाऽन्वयस्य यथाकथञ्चित्सम्भवेऽपि व्यतिरेकस्याऽत्यन्ताऽसम्भवः । तद् वरं दिक्कालादोनामकारणबकल्पनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org