________________
॥ ऐं नम : ॥ श्री शंखेश्वरपार्श्वनाथाय नमः ॥
श्रीन्यायसिद्धान्तप्रवेशकन्थिका ॥ ॥६०॥ श्री गणेशाय नमः ॥ श्री सरस्वत्यै नमः ।।
कामिन्यां वीतरागोऽपि, विद्यायां सततं रतः । बोधपुत्र ननयतु, श्रीमानहज्जिनेश्वरः ॥ १॥ दुर्बोधं किल जैनशास्त्रमखिलं पूर्वैः कृतं विस्तृतं तर्कव्याकृति साङ्ख्ययोगपरशु(शुः) श्रौतद्वयस्याऽपि यत् । सिद्धान्तस्य विखण्डनेऽशनिरिति प्रावेशिका कन्थिका सिद्धान्तैर्मथिता परं विजयते विद्वन्मनोरञ्जनी ॥ २ ॥ अथ कार्यकारणभावविचारः
घटं प्रति दण्डः कारणमित्युक्ते दण्डे घटनिरूपिता कारणता प्रतीयते । तत्रेदं' व्युत्पित्सुभिर्विचारणीयम् , घटपदार्थः कः ! दण्डपदार्थश्च कः ।। घटः पृथिवीद्रव्यं दण्डश्च तथा इति निर्णोते (तथेति निर्णीयते । ) तदनन्तरं यत्र, घट उत्पद्यते तत्र चक्रादौ दण्डोऽस्ति चेत् (द), भविष्यति कारणम् ; नास्ति चेन भविष्यति कारण इ(णमि)ति । घटोत्पत्त्यधिकरणे चक्रे यद्यपि कुलान भ्रमिमुत्पाद्य दण्डो भूमौ निःक्षिप्त इति न घटोत्पत्तिप्राक्क्षणे दण्डोऽस्तीति कार्यनियतपूर्ववृत्तित्वरूपं कारणत्वं न घटते । तथापि चक्रे दण्डस्य संयोगसम्बन्धाभावेऽपि दण्डजन्यभ्रमेश्चक्रे सत्त्वेन स्वजन्यभ्रमिवत्तासम्बन्धेन दण्डस्तत्र वर्तत एवेति सुष्ठूच्यते घटं प्रति दण्डः कारणमिति । - इत्थं च चक्रे संयोगेन घट उत्पद्यते, तत्रैव स्वजन्यभ्रमिवत्तासम्बन्धो(न्धे)न दण्डोऽपि वर्तत इति संयोगः कार्यतावच्छेदकः सम्बन्धः, स्वजन्यभ्रमिवत्ता च कारणतावच्छेदकः सन्बन्ध इति मनसि निश्चिते, संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्न कार्यतानिरूपिता स्वजन्यभ्रमिवत्ता सम्बन्धावच्छिन्न-दण्डत्वावच्छिन्ना कारणतेति कार्यकारणभावः कर्तव्यः । एवं घटं प्रति चक्र कपाल-द्वयं तसंयोगः [च कारणमित्युक्ते सर्व स्वयमभ्यूह्यम् ।
- अत्रेदं बोध्यम् - यदिदं कारणत्वं तच्चाऽन्वयव्यतिरेकाभ्यां सिध्यति । न च तो केवलदण्डे . चकादौ वा न सम्भवतः, केवलदण्डसत्त्वे केवलचक्रसत्त्वे वा घटसत्वाऽभावादिति वाच्यम् । यतः केवलदण्डसत्वे घटसत्वं केवलदण्डाभावे (च) घटाभाव इत्यन्वय-व्यतिरेको कदापि न प्रायो, त्वदुक्काऽसम्भवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org