SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ५० श्रीमत्सूराचार्यविरचितम् आरम्भान्तरमन्तरे गुरुतरं गेहाद्यसद्गोचरं मुञ्चत्यत्र समग्रमग्रिमगुणग्रामं मुनेर्मन्यते । मान्यं सोऽन्यगुणान्तरं च लभते छिन्यात् क्वचित् संशयं दुष्टा. तेन न वन्दना यदि वदेद दाने समाधिः समः (१)। ९८।। वन्दनादिगुणानेतानन्यूनानभिवाञ्छता । दानं विशेषतो देयं यत् पर[७२-२] स्थानकारणम् ॥१९॥ मुनीनां ज्ञानादौ भवति बहुमानः प्रकटित स्तदन्येषां मार्गों जिनवचन भक्तिः परहितम् धनेऽनास्थाभावो गुरुपुरुषकृत्यानुकरणं कियन्तः कथ्यन्ते वितरणगुणाः सिद्धयनुगुणाः ॥१००। .. धर्मे स्थैर्य स्यात् कस्यचिच्चञ्चलस्य प्रौढं वात्सल्यं बृंहणा सद्गुणानाम् । दानेन श्लाघा शासनस्यातिगुर्वी दातृणामित्थं दर्शनाचारशुद्धिः ॥१०१।। औदार्य वयं पुण्यदाक्षिण्यमन्यत् संशुद्धो बोधः पातकात् स्याज्जुगुप्सा । आख्यातं मुख्यं सिद्धधर्मस्य लिङ्गं लोक[७३-१]प्रेयस्त्वं दातुरेवोपपन्नम् ॥१०२॥ तीर्थोन्नतिः परिणतिश्च परोपकारे ज्ञानादिनिर्मलगुणावलिकाभिवृद्धिः । वित्तादिवस्तुविषये च विनाशबुद्धिः सम्पादिता भवति दानवताऽऽत्मशुद्धिः ॥१०३॥ सीदन्ति पश्यतां येषां शक्तानामपि साधवः । न धर्मो लौकिकोऽप्येषां दूरे लोकोत्तरः स्थितः ॥१०४॥ सीदन्तो यतयो यदप्यनुचितं किञ्चिज्जलान्नादिकं स्वीकुर्वन्ति विशिष्टशक्तिविकलाः कालादिदोषादहो । मालिन्यं रचयन्ति यजिनमतस्यास्थानशय्यादिना श्रा[७३-२]द्धानामिदमेति दूषणपदं शक्तावुपेक्षाकृताम् ॥१०५।। अपात्रबुद्धिं ये साधौ लिङ्गिमात्रेऽपि कुर्वते । नूनं न पात्रताऽस्त्येषां यथात्मनि तथा परे ॥१०६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy