________________
दानादिप्रकरणम् अनिर्वाहे तु गृह्णन्ति ग्लानादेश्च प्रयोजने । देशाधपेक्षं कल्प्यादि तथा चोवाच वाचकः ॥८७॥ "किञ्चिच्छुद्धं कल्प्यमकम्प्यं स्यात् स्या[७१-१]द कल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भैषजाद्यं वा ॥८८॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमोक्ष्य भवति कल्प्यं नैकान्तात् कल्पते कल्प्यम् ॥८९॥"
[प्रशमरति १४५-४६] ग्रहीष्यन्ति न वा ते तु ज्ञातुमेतन्न शक्यते । दातव्यं सर्वथा तावत् साधुभ्यो धर्मसिद्धये ॥९०॥ उक्तं चेत्सेन्न(?) वा साधुस्तं तथाऽपि निमन्त्रयेत् । अगृहोतेऽपि पुण्यं स्याद् दातुः सत्परिणामतः ॥९१॥ किश्चोपदेशेन विनाऽपि भक्तः
शक्तश्च दत्ते हि यथा कथञ्चित् । मिथ्या[७१-२] विचारं च करोत्यभक्त
स्तुच्छस्वभावः स्वमदानुकामः ॥९२॥ भक्तिव्यक्तिः कथमिव भवेदागतानां यतीनां
यद्याहारं न पचति गृहो सुन्दरं सादरं च । अन्यस्यापि स्वजनसुहृदः कृत्यमौचित्यमित्थं
गौरव्याणां किमुत जगतः साधुसाधर्मिकाणाम् ॥९३॥ नामापि साधुलोकानामालोकादिविशेषतः । कोऽपि पुण्यैरवाप्नोति दानादि तु किमुच्यते ॥९४॥ एष्टव्यमित्थमेवेदं मध्यस्थैः सूक्ष्मदृष्टिभिः । विधातुं बुद्धयते श्राद्धैर्वन्दनान्यपि नान्यथा ॥९५॥ प्रस्थास्नोः [७२-१] पथि वन्दारोविचित्रैर्यानवाहनैः । महर्द्धिकस्य श्राद्धस्य संरम्भारम्भसम्भवात् ॥१६॥ न चेयं क्वापि सिद्धान्ते निषिद्धा किन्तु साधिता । स्थाने स्थानेऽनवद्याया बन्दनाया निवेदनात् ॥९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org