________________
श्रीमत्सूराचार्यविरचितम् समग्रसद्गुणग्रामग्रामणीरिव गण्यते । निर्गुणोऽपि जनैर्दाता चिन्तामणिरिवोपलः ॥९॥ कान्ता नितान्तकुपिता निजवल्लभाय
यावल्लभेत शुभदुर्लभभूषणादि । तावत् प्रसीदति निषोदति सन्निधाने
दानं प्रसाधनविधाविह सिद्धतन्त्रम् ॥१०॥ कान्ताप्रसादनविधिप्रमु[२४-२Jखं न मुख्य
दृष्टान्तमात्रमिदमत्र फलं मयोक्तम् । दानार्जितोर्जितशुभोदयतस्तु पुंसां
कल्याणमेव सकलं भवतीति युक्तम् ॥११॥ द्रविणं विश्राणयतामुपद्रवा विद्रवन्ति पुरुषाणाम् । दानं व्यसनहुताशनविनाशनघनाघनवनौषः ॥१२॥ स्पर्शनं सपदि सम्पदा पद
हाटकस्य निपतन्ति कोटयः । पात्रदातृसदनेषु दानतः
सुप्रसिद्धमिदमागमे यतः ॥१३॥ भोगाः श्रीशालिभद्रप्रमुख तनुमतां सम्मताः सुप्रसिद्धाः
सिद्धान्ते मूलदेवप्रभृतितनुभृतां प्राज्यराण्यादयश्च । निर्वाणं श्रीजि[२५-१]नेभ्यः प्रथमपृथुतपोऽनन्तरं पारणायां
दातृणां तत्र दानात् फलमलघु भवे वादि(?) यद्वा तृतीये ॥१४॥ एक वस्तु वितीर्यमाणमडकं () राजादिसाधारणं - [राज्यं सत्वरगत्वरं स्थिरतरं स्थूरं परव्याहृतम् । सूते कीर्तिजनानुरागसुकृतस्तोमं तथाप्युधमो ____दाने किं न विधीयते ध्रुवमहालामे शुभे लोभिनः ! ॥१५॥ सत्यं चेद्भवतां प्रियं धनमपि प्राणात्यये दुस्त्यजं
वृद्धिं यातममन्दसम्मदरसं चित्ते विधत्ते जनाः(१)। सुक्षेत्रेषु तदाखिछेषु वपत श्रद्धाम्बुभिः सिञ्चत ,
श्रेयोऽनन्तगुणं भविष्यति यतः कालेऽब(? म)लं प्राप्नुत ॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org