SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽवसरः अन्नादिदानमिदमस्तनिदानबन्धं सद्भावनाविधिपरस्य भवप्रबन्धम् । छिन्ते यशो वितनुते कुशलं प्रसूते दातुः परं जनयतीह जनानुरागम् ॥१॥ आगांसि संस्थगयति प्रकटीकरोति विद्यादिकं गुणगण गणनां विधत्ते । क्रुद्धं प्रसादयति सादयते विपत्ति सम्पत्तिमानयति किं न शुभं बिभर्ति ॥२॥ स्वर्गादिमुख्यसुखसम्पदवाप्तिहेतुः संसारसागरसमुत्तरणैकसेतुः । दानं जिनेन सदनस्थजनस्य युक्त ___मग्रेसर सुकृतसा[२३-२]धनमेतदुक्तम् ॥३। शूरः सुरूपः सुभगोऽस्तु वाग्मी ___ शस्त्राणि शास्त्राणि विदाङ्करोतु । दानं विना दिग्वलयं समस्त मयों न कीर्त्या धवलं विधत्ते ।।४॥ आहाराध भवति ददता साधुदेहं प्रदत्तं दत्ते देहे सकलमतुलं निर्मलं धर्मकर्म । तस्माद्दानं निरुपममिदं साधनं धर्मराशे . रस्याभावे विरमति यतो मुक्तिमार्गः समनः ॥५॥ अकलाकुशले कुलशीलवर्जिते सकलविमलगुणविकले । दातरि कल्पतराविव नरे नु रज्यन्ति जननिवहाः ॥६॥ अशेषदोषसङ्घातं दानमे[२४-१]कं शरीरिणाम्। . तिरोदधाति वस्तूनां रूपं वान्तपिवोद्धतम् ॥७॥ . शोलं कुलं कुशलतां च कलाकलापे - शौचं शुचीनि चरितानि तथाऽपराणि । .. विश्राणनं तनुमतां नयति प्रकाशं वस्तूनि रोचिरिव चण्डरुचेः प्रचण्डम् ॥८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy