SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 452 यथापल्ल्लवपुष्पाढया यथापुष्पफलर्द्धयः । ___यथाफलर्द्धिप्रारोहा हा मनः कागमन् द्रुमाः ॥१२ 453 पाषाणशकलाधीनो यद्गुणग्रामनिर्णयः । स्वर्ण तत्कि न तत्रैव विलीनं दहनोदरे ॥१३ 454 साध्वेव तद्विधावस्य वेधाः क्लिष्टः न यन्मुधा । स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥१४ 455 मया बदरलुब्धेन वृक्षाणामनभिज्ञया । वने कण्टकसादृश्यात् खदिरः पर्युपासितः ॥१५ 456 महातरुर्वा भवति समूलो वा विनश्यति । नान्तरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः ॥१६ 457 पत्रपुष्पकलच्छायामूलवल्कलदारुभिः ।। धन्या महीरुहो येषां निराशा यान्ति नार्थिनः ॥१७ 458 छायावन्तो गतव्यालाः स्वारोहा फलदायिनः । मार्गद्रुमा महान्तश्व परेषामेव भूतये ॥१८ [काव्यालंकार ३, १८] 459 अगतीनां खलीकारान्न दुःखमपि जायते ।। भवन्त्यशोकाः प्रायेण साङ्कुराः पादताडिताः ॥१९ 460 भिवन्तेऽनुप्रविश्यन्ते यो यथारुच्युपाधिना । विशुद्धिः कीदृशी तस्य जडस्य स्फटिकात्मनः ॥२०. 461 मरौ नास्त्येव सलिलं कृच्छ्रात् यदपि लभ्यते । तत्कटुस्तोकमुष्णं च न करोति वितृष्णताम् ॥२१ 462 क्रौञ्चं विहाय स्वं पुत्रं पितरं च हिमालयम् । प्रविश्य जलधि पक्षौ रक्षतानेने किं कृतम् ॥२२ [अनर्धराधव; ७,२३] 463 नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः । __ येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥२३ 455 ख प्रतौ न विद्यते । 457 ख० 'पुष्पपत्रफल.' । 460 ख प्रतौ न विद्यते 462 ख. 'विहाय पुत्रं च पितरं । 463 ख प्रतौ न विद्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy