SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 325 वनिताचित्तचपला तडिदम्भोद कुक्षिषु । न तिष्ठति चिरं लक्ष्मीरपात्राङ्कमिवागता ॥१४ 326 कलुषमधुरं चाम्भः सर्व सर्वत्र साम्प्रतम् । भनार्जवजनस्येव कृतकव्याहृतं वचः ॥१५ 327 सेन्द्र वापैः श्रिता मेधैर्निपतन्निर्झरा नगाः । वर्णकम्बलसंवीता बभुर्मत्तद्विपा इव ॥१६ 328 अदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना । विषं विषधरैः पीतं मूञ्छिताः पथि काङ्गनाः ॥१७ अथ नीतिः । 329 यथागतं गतं भृङ्गः प्रम्लानं पल्लवैर्निजैः । पश्य स्वपरयोर्भेदं विभग्ने चन्दनद्रुमे ॥१ 330 यस्य विप्रेयमन्विच्छेत् ब्रूयात् तस्य सदा प्रियम् । व्याधा मृगवघं कर्तुं गेय गायन्ति सुन्दरम् ॥२ 331 नकः स्वस्थानमासाथ गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानात्शूनाऽपि परिभूयते ॥३ 332 चलत्तणादपि मृगा बिभ्यते मृत्युशङ्कया । व्याधे विश्वासमायान्ति क उपायैर्न वञ्च्यते ॥४ ' 333 तेजस्विनि क्षमोपेते मालिकार्कश्यमाचरेत् । अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥५ 834 अनुपासितवृद्धानामनाश्रितमहीभुजाम् । ___ाचारमुख्याः सुहृदां दूरे धर्मार्थमन्मथाः ॥६ 335 अस्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्या मध्यमभावेन नृपवह्निर्गुरुस्त्रियः ॥७ 336 मूदुनापि हि साध्यन्ते कर्मणा स्वार्थसिद्धयः । ___ असृक् पिबति तन्वङ्गी जलौका न च लक्ष्यते ॥८ 837 भीतः पलायमानो वा नान्वेष्टव्यो बलीयसा । कदाचित् शूरतामेति मरणे कृतनिश्वयः ॥९ 326 ख. प्रतौ न विद्यते । 327 ख० मेधैरै निर्झरा' । 330 प० 'मृगवधु'। 332 प 'बिभ्यतो'। 334 प. 'अवारमुख्या सुहृदाः' । ख० •मनाथितमहीभुजाम। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy