SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 338 अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥१० 339 यो यमर्थ प्रार्थयते तदर्थ च घटेत यः । सोऽवश्यं तमवाप्नोति श्रान्तश्चेन्न निवर्तते ॥११ 340 मर्दाङ्गुलपरीणाहजिह्वाप्रयासभीरवः । सर्वाङ्गीणपरिक्लेशमबुधाः कर्म कुर्वते ॥१२ 341 समुद्रमिव राजानमाश्रितास्तत्फलैषिणः । समूलं वाऽपि नश्यन्ति पारं वा यान्ति संपदः ॥१३ 342 जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः । . जितेषु तेषु लोकोऽयं समस्तोऽपि त्वया जितः ॥१४ 343 स्पृशन्नपि गजो हन्ति निघ्रन्नपि भुजङ्गमः । हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥१५ 344, शतेषु जायते शूरः सहस्रेषु विचक्षणः । दाता शतसहस्रेषु वक्ता भवति वा न वा ॥१६ 345 यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥१७ ___ [अनर्घराघव, १,४] 346 भकृत्वा परसंतापमगत्वा खलनम्रताम् । . अमुक्त्वा महतां मार्ग यदल्पमपि तद्बहु ११८ ...347 सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः । सर्वे महत्वमिच्छन्ति तद्वन्दमवसोदति ॥१९ 348 क्रियतेऽभ्यर्हणीयाय सज्जनाय यथाञ्जलिः । ततः साधुतरः कार्यो दुर्जनाय शिवार्थिना ॥२० 349 अरिषड्वर्ग एवायं तस्यास्तात पदानि षट् । तेषामेकमपि च्छिन्दन् खञ्जय भ्रमरीं श्रियम् ॥२१ [अनर्घराघव,६,९] 340 ख. 'जिह्वाग्रायासभीरवः। 341 श्लोकोऽयं ख प्रतौ ३३. लोकानन्तर मुपलभ्यते ॥ 344 इन्द्रियाणां जयेत्शूरः धर्म चरति पण्डितः । सत्यवादी भवेदवक्ता दाता भूतहितेरतः ॥ इति प प्रतौ 345 प. 'यान्त्यन्यायप्रकृतस्य' ॥ 349 ल. एवायमस्याः । प. तेषामेकमछिन्दन ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy