SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सुक्तिरत्नकोषः 289 बुद्धतत्त्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् । बुद्धतत्त्वोऽपि लोकस्य जडोन्मत्तपिशाचवत् ॥२ 290 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥३ 291 नापृष्टः कस्यचिद्यान्न चान्यायेन पृच्छतः । विजानन्नपि योगीन्द्रो जडवल्लोकमाचरेत् ।।४ 292 अहेरिव गणा(?जना)द्धीतः सन्मानान्नरकादिव । राक्षसीभ्य इव स्त्रीभ्यस्तं देवा योगिनं विदुः ॥५ 293 अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ 294 या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥७ [ भगवद्गीता, २, ५९] 295 कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः । योषिति ध्यानयोगेन योगिनः कामिनः शुनः ॥८ 296 प्रज्ञातब्रह्मतत्वोऽपि स्वर्गीय रेष खेलति । गृहस्थसमयाचारप्रक्रान्तैः सप्ततन्तुभिः ॥९ [अनर्घराघव, २,३५] 297 अविधाबीजविध्वंसादयमार्षेण चक्षुषा । . .. कालो भूतभविष्यन्तौ वर्तमानमवीविशत् ॥१० . [अनघराघव, २,३४] 298 येन केनचिदाच्छन्नो येन केनचिदाशितः । यत्र कचन शायौ यस्तमाहुर्मुक्तलक्षणम् ॥११ अथ सिंहः । 299 मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना । हरिणा हरिणाः स्पर्धा वराकाः कुर्वते कथम् ॥१ 291. ख निर्भराः। 292. शोभनं मनो यस्य इति प प्रतौ टिप्पणी ॥ 295. ख. 'कणपं"। 296. ख० प्रतौ न विद्यते। 297. प० 'आर्षेषाचक्षुषा' । 298. ख. 'यत्र न कचन.' । *. अथ सिंहप्रक्रमः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy