________________
सूक्तिरत्नकोषः 184 एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिम् ।
तन्न्यास्त्रिवलिबन्धेऽपि सैव मध्यस्य नम्रता ॥४ 185 एक एव बलिर्बद्धो वामनीभूय विष्णुना ।
लीलयैव त्वया तन्वि मन्ये बद्धं वलित्रयम् ॥५ 186 दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥३
. विद्धशालभञ्जिका १,३] 187 नासोत् नास्ति न वा नारी भविष्यत्यनया समा।
इति रेखात्रयं वेधावक्रेऽस्यास्त्रिवलिच्छलात् ॥७ 188 अमृतस्येव कुण्डानि सुखानामिव राशयः । रतेरिव निधानानि योषितः केन निर्मिताः ॥८
_[भर्तृहरि. सु. सं, ७.३] 189 मनः प्रहादयन्तीभिर्मदं यान्तीभिरप्यलम् । __महान्तोऽपि 'प्रपद्यन्ते स्त्रीभिरद्भिरिवाचलाः ॥९ 190 अस्या मनोहराकारकबरीभारनिर्मि(जि)ताः ।
लजयेव वने वासं चक्रुश्चमरचहिणः ॥१० 191 बाले ललामलेखेयं भाले भल्लीव राजते ।
भूलताचापमाकृष्य न जाने कं हनिष्यसि ॥११ 192 यतो यतः क्षिपत्यक्षि क्षिप्रमायतलोचना । .. ततस्ततः प्रक्षिपति पञ्च पञ्चशरः शरान् ॥१२ 193 नपुंसकमिति ज्ञावा त्वां प्रति प्रहितं मनः ।
तत्त तत्रैव रमते धृ(?ह)ताः पाणिनिना वयम् ॥१३. 194 सह प्रयातं लोलाक्ष्या. मनो यन्न निवर्तते । ।
सत्प्रवृत्तिमिवान्वेष्टुं दृष्टिस्तत्रैव धावति ॥१४ . . 195 इदं रम्यमिदं रम्यमित्यावसथवृत्तया(ये?) । -..
'तस्या भ्रमति सर्वाङ्गं : मन्ये मूह इव स्मरः ॥१५ 186. ख. चारुलोचनाः । 187. ख. प्रतौ श्लोकोऽयं 'हारोऽयं (९८३)' इति
लोकानन्तरं दृश्यते । 188 'रते रव' (188) इत्यत आरभ्य 225 तम लोकान्तर्गत 'पुरः सखीजन' इति. पर्यन्तः सन्दर्भः पत्रचतुष्क(२०त: २३)त्रुटेर्नोपलभ्यते प प्रतौ ॥ 193 ख प्रती 'प्रति'शब्दः नष्टः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org