SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 196 नो तदीये संतापं यज्जनस्यानुरागिणः । __जनयांचक्रतुस्तीवं तत्र हेतुर्विलोमता ॥१६ 197 तत्त्रिविष्टपमाख्यातं तन्वङ्गया यद्वलित्रयम् । यत्रानिमेषदृष्टित्वं नृणामप्युपजायते ॥१७ 198 यन्न माति तदङ्गेषु लावण्यमिति संभृतम् । पिण्डीकृतमुरोदेशे तत्पयोधरतां गतम् ॥१८ 199 हाराय गुणिने स्थानं न दत्तमिति लज्जया । तन्वङ्गयाः कुचयुग्मेन मुखेन प्रकटोकृतम् ॥१९ 200 उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥२० 201 भूर्भुवःस्वर्विभूतीनां सौभाग्यं यत्प्रसादतः । ताभ्यः सकर्णः को नाम कामिनीभ्यः पराङ्मुखः ॥२१... 202 विधायापूर्वपूर्णेन्दुमस्या मुखमभूदध्रुवम् । धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥२२ । [रत्नावली, २,८] 203 स्त्रीति नामातिमधुरं कुर्यात्कं न स्मरातुरम् । किमुतौदार्यचातुर्यप्रसादमधुरं वचः ॥२३ 204 अकृत्रिमप्रेमरसा बिलासालसगामिनी । असारे दग्धसंसारे सारं सारङ्गलोचना ॥२४ . 205 अभ्यासः कर्मणां नित्यमुत्पादयति कौशलम् । विधिना तावदभ्यस्तं सृष्टा यावन्मृगेक्षणा ॥२५ 206 अस्याः कान्तस्य रूपस्य सौपम्यातिशायिनः । गच्छेदेकैव सादृश्यं स्वच्छाया दर्पणाश्रिता ॥२६ 207 मारयन्त्या जनं तस्या निरागस वज्ञया । मातङ्गानां गतिर्यादा तादृगासीदसंशयम् ॥२७ 208 धाता यदि न चक्षुष्मान्केनेयं निर्मितेदृशी । ___ अथ चेद् दृष्टिरस्त्यस्य को हेतुरपरिग्रहे ॥२८ 209 तस्या विनापि हारेण निसर्गादेव हारिणौ । को , जनयामासतुः कस्य विस्मयं न पयोधरौ ॥२९. 1210 किं चित्रमुन्नतश्रीको यप्रियायाः पयोधरौ ।।. १५ तस्या हृदयलाभेन जायते कस्य नोन्नतिः ॥३० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy