SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 172 पृथ्वी पयोधिपर्यन्तां यः शास्त्येकपुरीमिव । एकमेवोदरं तस्याथैश्वर्य कि प्रशंप्ससि ॥३१ 173 आभोगिनौ मण्डलिनी तत्क्षणोन्मुक्तकञ्चुको । वरमाशीविषौ' स्पृष्टौ न तु तन्न्नाः पयोधरौ ॥३२ 174 पितृमातृमयो बाल्ये यौवने वनितामयः । वार्द्ध के संततिमयो मुग्धो नाममयः कचित् ॥३३ 175 अनादाविह संसारे दुर्वारे मकरध्वजे । कूले च कामिनीमूले विभवे का विकल्पना ॥३४ 176 कथं ते पातकपरा नरा रात्रिषु शेरते । मरणान्तरिता येषां नरकेषु विपत्तयः ॥३५ 177 आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदां मार्गों येनेष्टं तेन गम्यताम् ॥३६ 178 अस्थिस्थूणं स्रसास्यूतं मांसशोणितलेपनम् । कोणे पुत्रपुरीषाभ्यां भूतावासमिमं त्यज ॥३७ 179 पूर्ववयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥३८ 180 यदि यत्रैव तत्रैव यथैव च तथैव च । रति त्वं चित्त बध्नासि नासि दुःखस्य भाजनम् ॥३९ अथ स्त्रीप्रशंसा 181 यदेव रोचते मह्यं तदेव कुरुते प्रिया । इति वेत्ति न जानाति तत्प्रियं यत्करोति सा ॥१ 182 दयिताबाहुपाशस्य कुतोऽयमपरो विधिः । जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥२ 183 हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेऽयं के वयं स्मरकिंकराः ॥३ 172 'रक्षयति' इति प प्रतौ टिप्पणी ॥ 175 ख. 'विप्लवे का विकल्पना' । 176. प. 'मरणान्तरितो येषां' ।। 178. ख. 'नासास्यूतं'। 182. प. 'जीवत्यर्पितः' । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy