SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 160 सत्यमेव प्रयागोऽयं मोक्षद्वारमुदीर्यते । देव्या यत्रामितो गङ्गायमुने वहतः श्रियम् ॥१९ 161 प्रयागः सर्वतीर्थेषु तीर्थमुञ्चैस्तरामयम् । संसारस्य परं पारमिहस्थैरवलोक्यते ॥२० 162 श्यामो नाम वटः सोऽयमेतस्याद्भुतकर्मणः । छायामप्यधिवास्तव्यैः परं ज्योतिर्निषेव्यते ॥२१ 163 दुर्वाकुशाकुराहाराः ध्यास्तात वने मृगाः । विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि ये ॥२२ 164 दृषद्भिः सागरो बद्धो मनुष्यैरिन्द्रजिज्जितः । वानरर्वेष्टिता लङ्का जीवद्भिः किं न दृश्यते ॥२३ 165 षष्ठं किमिति न प्रोक्तं महापातकमुत्तमम् । यदेतदीश्वरद्वारि दुराशाटिरिटिल्लितम् ॥२४ 166 सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥२५ 167 उच्छ्वासावधयः प्राणः स उच्छ्वासः समीरणः । .समीरणाचलं नास्ति यज्जीवति तदद्भुतम् ॥२६ 168 सर्वे क्षयान्ता निचयाः पतनान्ताः समुन्छ याः । संयोगा विप्रयोगान्ता माणान्तं हि जीवितम् ॥२७ 169 आसन्नतरतामेति मृत्युर्जन्तोदिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥२८ 170 सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥२९ [नागानन्द, ४, ७] 171 क्रोडीकरोति प्रथमं यदा जातमनित्यता । धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः ॥३० [नागानन्द, ४,८] 163-164 खप्रतौ नोपलभ्यते । 165 प. किमिते न प्रोक्तं । 167 प. संयोगा ता विप्रयोगान्ता । 169 'वध्यस्थान' इति प प्रतौ टिप्पणी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy