SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 135 कृतं कलौ त्वयैकेन परलोकप्रसाधनम् । गुणानुबन्धिभिः शुद्धर्मार्गणैः सफलीकृतैः ॥३३ 136 राजन् त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुभूमिरेको लोकत्रयायसे ॥३४ 137 करपातैर्दुरालोकैस्तीक्ष्णैः संतापयन् प्रजाः । भानुर्न भवता तुल्यः क्षणसंरक्तमण्डलः ॥३५ 138 सरस्वती स्थिता वको लक्ष्मी वेश्मनि ते स्थिता । कीर्तिः किं कुपिता राजन् येन देशान्तरं गता ॥३६ 139 त्वया सह विरुद्धानां कुतः कुशलता कुले । वासोऽपि नियतस्तेषां वने कुशलताकुळे ॥३७ 140 विरोधात्तव शत्रणां जातं सौगतदर्शनम् । — विग्रहे क्षणभङ्गिवं सर्वार्थेषु च शून्यता ॥३८ 141 कुर्वन्गङ्गाम्भसां क्षोभं यस्य निस्वाननिस्वनः । स्नातीव वारिवधूवर्गगर्भपातनपातकी ॥३९ अथ शान्तः। 142 स्वप्ने चिदंशवैकल्यं जागरे विषयग्रहः । .. स्वप्नजागरणातीतं पदमाहुर्मनीषिणः ॥१ 143 ब्रह्माण्डसम्पुटं भित्वा यो न याति परात्परम् । स पुमानिति निर्देशं गर्भस्थी लभते कथम् ॥२ 144 जरामरणदौर्गत्यव्याधयस्तावदासताम् । ___ मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् ॥३ 145 आवासः क्रियतां गाङ्गे पापवारिणि वारिणि । तन्वङ्गयाः कुचयुग्मे वा मनोहारिणि हारिणि ४ [भर्तृहरि, सु. सं, १३५] 146 निदाघे पुटपाकेन जलौघेन धनागमे । शीतज्वरेण हेमन्ते सावधः सर्वदा जनः ॥५ 135 'शत्रुनिर्गतैः' इति प. प्रतौ टिप्पणी । 136 'रक्षक,' 'लोकाशा, त्वं चामरयोग्यता' इति प. प्रती टिप्पण्यः । 138ख० कोपिता । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy