SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 124 कि कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥२२ 125 पद्मानां नालदण्डेषु देहदण्डेषु कामिनाम् । ___दृश्येते यदि नान्यत्र त्वयि रक्षति कण्टकाः ॥२३ 126 कतिस्ते जातजाड्येव पुराम्भोधिमज्जनात् ।। आतपाय जगन्नाथ गता मार्तण्डमण्डलम् ॥२४ 127 अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणोघः समभ्येत गुणो याति दिगन्तरम् ॥२५ 128 दोःस्तम्भे शुशुभे यस्य धनुर्गुणकिणावली । कालायसमयी मन्ये शृङ्खला जयदन्तिनः ॥२६ 129 कटकः कण्टकान् यस्य दलयामास निर्दयम् । __स हि न क्षमते किञ्चित् बिन्दुनाप्यात्मनोऽधिकम् ॥२७ 130 अधिज्यं यस्य कोदण्डं स्मरन्तः परिपन्थिनः । व्यथन्ते स्म पुरन्ध्रीणां विलोक्य भूलतामपि ॥२८ 131 राजेति नामतः कामममुना स्पर्द्धतां विधुः । ___कलास्तु षोडषी स्वस्य कथं कुर्याच्चतुर्गुणाः ॥२९ 132 पृथूद के भवत्खड्गे स परः शतपुष्करे । दृष्टेऽपि पाप्मनां पुंसां पापराशिः प्रणश्यति ॥३० 133 अनास्वादितसंभोगाः पतन्तु तव शत्रवः । बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥३१ 134 नारायणायितं देव त्वया नरक विद्विषा । यदेकः शिशुपालोऽपि स्थापितो न द्विषां कुले ॥३२ 123 ख० 'सीमान्तादसि' 124 प० 'यन्म कलिरस्तु' ॥ 127 ख० 'मार्गणोघ समभ्येति' । 130 'शत्रवः' इति प. प्रतौ टिप्पणो । 131 'अनुमतं' 'चन्द्र' 'आत्मनः' इति प. प्रतौ टिप्पण्यः । 132 'भव्य' 'शतात्परः' 'तीर्थे' इति प. प्रतौ टिप्पण्यः । ख० 'भवत्खड्गे परः शतपुष्करे' । 1:4 ख० 'नारायणायत' । 'दानवः,' 'बालहारकः' च इति प. प्रती टिप्पणी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy