SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सूक्तिरलकोषः 92 विद्यायां दुर्मदो येषां कार्पण्यं विभवे सति । तेषां देवाभिशप्तानां सलिलाद ग्निरुत्थितः ॥८ 93 स्वस्ति क्षत्रियवाय जगदेवाय भूभुजे ।। ____ यद्यशः पुण्डरीकान्तर्गगनं भ्रमरायते ।.९ 94 महिम्नामन्तरं पश्य शेषाहेः साब्धिभूधरा । फणाकुमुदमालायां भ्रमरीव विभाति भूः ॥१० 95 तमस्ततिगुहालीनं चन्द्रः कामिजनं हठात् । समर्पयति कामस्य दर्शनप्रतिभूरिव ॥११ 96 दामोदरकराघातविहलीकृतचेतसा । दृष्टं चाणुरमलेन शतचन्द्रं नभस्तलम् ॥१२ 97 नभः कर्पूरगौराभं चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसंकाशं करिष्यति शनैः शनैः ॥१३ 98 सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्विनः । राघवस्य शराङ्गारैः समुद्राद्धूलिरुत्थिता ॥१४ 99 दूरस्था दयिता यस्य नवा पीनपयोधरा । तस्य संतापशमने न वानी न पयोधरा ।।१५ 100 एहि गच्छ पतोत्तिष्ठ वद मौन समाचार ।। - इति वित्रस्तसारङ्गनेत्रया को न कारितः ॥१६ 101 यदि नामास्य कायस्य यदन्तस्तद्वहिर्भवेत् । अयत्नेनैव तन्वङ्गो बहिर्दृश्येत सा तदा ॥१७ 102 ववाविवीवुवूवेवैवोवौवंव इति स्वराः । प्रावर्तन्त रिपुस्त्रीणां पर्दाहे सैनिकैः कृते ॥१८ 93 'मध्ये' इति प. प्रतौ टिप्पणी । 94 'अन्धकारसन्तति' इति प. प्रती टिप्पणी । 95 ख 'चन्द्र कामिजनं' । 97 'उदितः' इति प. प्रतौ टिप्पणी । ख. 'नभः कर्पूरपूराभं' । 99 ५० 'यित्रस्तसारङ्गनेत्रयाः' । 101 प० 'यदन्त हिर्भवेत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy