________________
:-३८
मृदुला रे यदाहुः
कश्चिदवाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं तस्तनोति ।
न ह्येकस्मिन्नतिशयवतां सन्निपातो गुणाना
- मेकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥14 भावयित्रीप्रतिभायुक्ताः कवयोऽपि दिवविधा भवन्ति अरोचकिनः सतृणाभ्यवहारिणश्चेति आचार्यों जयमङ्गलः । कवयोऽपि भवन्ति इति वामनीयाः। चतुर्धति यायावरीयः- अरोचकिनः, सतृणाभ्यवहारिणः, मत्सरिणस्तत्त्वाभिनिवेशिनश्चेति ।
कविप्रतिभामाहात्म्येन शब्दार्थयोः स्वरूपं साक्षात्करोति । शब्दार्थयोः असौ स्वरूपः राजशेखरपादैः पदार्थसार्थ इत्युक्तः"या शब्दग्राममर्थसार्थमलंकारतन्त्रमुक्तिमार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा।"18
अभिनवगुप्तपादस्य मते हि-"अनादिप्राक्तनसंस्कारप्रतिभानमयः।" प्रतिभा तावत् .प्रज्ञायाः काचित् प्रकारविशेषेत्यभिमतमाचार्यस्याभिनवगुमपादस्य । तत्रभवान् आह-"प्रतिभापूर्ववस्तुनिर्माणक्षमा प्रज्ञा ।" अपूर्ववस्तुसृजनक्षमा प्रशैव प्रतिभा । कविप्रतिभया सहृदयः कविः काव्यनिर्माणक्षमत्वं प्राप्नोति-"तस्या विशेषो रसावेशवैशयसौन्दर्य काव्यनिर्माणक्षमत्वम् ।116 शास्त्रज्ञानजन्या बुद्धिः प्रज्ञा । तत्र स्वतन्त्रकल्पनाशक्तेः उन्मेषणासम्भावात् । काव्यशास्त्रीया प्रज्ञा तु कल्पनासहकृतव । इयं प्रज्ञा नवनोन्मेषशालिनी, शास्त्रीया प्रज्ञा तु चिरन्तनमतानुसारिणी इत्यनयो दः । प्रज्ञा स्थिरा, समाधिस्था, प्रतिभाया तु नवसृष्टेः उद्दीपना विद्यते । कान्यकौतुके उद्धृत उल्लेखनीयः श्लोकस्तावत्
वे वर्मनी गिरो देव्याः शास्त्रं च कविकर्म च ।
प्रज्ञोपज्ञ तयोराद्यम् प्रतिभोद्भवमन्तिमम् ॥17 , शङ्कर-रामानुज-कुमारिलादयः प्रज्ञावन्तः, ये तावत् पूर्वाचार्यक्षुण्णमार्गान् मनागपि अपसत नोत्सहते । प्रतिमावन्तो हि वाल्मीकि-कालिदास-रवीन्द्रनाथादयः येषां तु अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा नवनवोन्मेषशालिनी। प्रतिभायां विद्यते काचित् स्वतःस्फुर्तिः, काव्यिक-प्रतिभया कविः सर्वमेव सौन्दर्यमण्डितं करोति । विद्यते अस्यां किञ्चिदलौकिकत्वम् । भवति चात्र श्लोक:
अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धाः तदिवपरीते तु दिव्यदृष्टयः। न तत् व्यक्षः सहस्राक्षो यच्चर्मचक्षुषः कवयः पश्यन्ति ।
मति-दर्पणे कवीनां विश्व प्रतिफलति ॥18 काव्यहेतुवर्णनाप्रसने काव्यप्रकाशकारो दण्ड्याचार्यमनुसृतवान् । “शक्तिः कवित्वबीजरूपसंस्कारविशेषः,यां विना काव्यं न प्रसरेत् प्रसृतं वोपहसनीय' स्यात् । शक्तिर्युत्पत्तिरभ्यासाः समस्ताः, न तु व्यस्ताः काव्यस्य कारणमिति मम्मटाचार्यस्याभिमतम्
शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवः ॥19 "तस्य (काव्यस्प) च कारणं कविगता केवला प्रतिभा"३० इत्याशयः पण्डितराजस्य जगन्नाथस्य । सा च प्रतिभा काव्यकारणतावच्छेदकतया सिद्घोऽखण्डो जातिविशेषः। सापि उपाधिः क्वचिददेवतामहापुरुषप्रसाद, दिजन्यरूपा दृष्टरूपा, क्वचित् काव्यकारणताभ्यासरूपा च । पण्डितराजस्तावत् मम्मठादिवत् “इति हेतुस्तदुद्भवे” इति मतं स्वीकतु नोत्सहते । केषाश्चित् कृतिषु सहजायाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org