SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ साहित्ये प्रतिभा प्रतिभायाः प्राधान्य प्रतिष्ठितम् , कुत्रचिद्वा व्युत्पत्यभ्यासरूपायाः आहार्यायाः प्रतिभाया. इति रुद्रटसम्मतः पन्था। प्रतिभाव्युत्पत्त्योः का श्रेयस्तरा इत्यस्मिन् विषयेऽपि मतानक्यं दृश्यते । छन्दोव्याकरणकलालोकस्थितिपदपदार्थानां ज्ञानेनोचितानुचितयोः यः सम्यक् परिज्ञानो भवति स एव संक्षेपेन व्युत्पत्तिरित्यभिधीयते । वस्तुतः सर्वज्ञता व्युत्पत्तेः परिभाषेति "छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् । युक्तायुक्तो विवेको व्युत्पत्तिरियं समासेन ॥31 प्रतिभाव्युत्पत्त्योः प्रतिभा भेयसीति अभिनवगुप्तपादोऽमन्यत । व्युत्पत्तिः श्रेयस्तरेति तु आचार्यो जयमालोऽचिन्तयत् । काव्ये व्युत्पत्त्यभावः प्रतिभयैव पूरिता भवतीति आनन्दवर्धनस्याभिमतम्, प्रतिभाभावे तु काव्यमुपहसनीयं भवति । आचार्यो जयमङ्गलो विपरीत मत पोषयति । "प्रतिभाव्युत्पत्ती मिथ समवेते श्रेयस्यौ" इति यायावरीयः । अनयोस्तु समन्वये कस्यापि नियमस्य कार्यकारिता न विद्यतें प्रतिभाया आनन्त्यात् । दण्डिना स्पष्टमेवोक्तम् “अस्त्यनेको गिरां मार्गः सूक्ष्मभेद: परस्परम् ।"23 भारतीयसमालोचकैः काव्यस्य बहिरङ्ग केवलमालोचितम्, अन्तरङ्ग तु प्रधानतया नालोचितमिति भ्रान्तोभियोगः पाश्चात्यसमालोचकैरुपस्थापितः । बहिरङ्गे दोषगुणालंकारे आलोचिते भपि प्राच्यसमालोचकैः अन्तरग नोपेक्षितम् । शब्दार्थरीतिवृत्तिगुणालंकारैः प्रतिभायाः विकासः। तदेतत् काव्यरहस्य परमिति ।” . एतदपि सत्यं यत् काव्यसृष्टे: मूले कवेः या शक्तिः विराजिता सा शक्तिः तस्याः योग्य समादरं प्राच्यालंकारिकानां काव्ये नालभत । राजानककुन्तकस्य वक्रोक्तिजीविते अस्याः कियती स्वीकृति दृश्यते। शब्दार्थगतसाहित्य तावत् कविव्यापारेणोत्पादित विशिष्टं साहित्यमिति प्रथममेवाचार्यः कुन्तकोऽभिहितवान् । क्षेमेन्द्रस्यौचित्यविचारचर्चा अपि काव्यस्य बहिरङ्गालोचनायां पर्यवसिता। - संस्कृतालंकारिकैः पाठकस्य ग्रहणी शक्तिरालोचिता, स्रष्टुः सृजनीशक्तिस्तु नालोचिता । प्रतिभा अन्यतमं काव्यकारणमिति स्वीकार्यापि, प्रतिभाया अभावेऽपि केवलेन व्युत्पत्त्यभ्यासेन साहित्यसृष्टिः सम्भवतीति तैरालंकारिकैरुक्तम् "न विद्यते यद्यपि पूर्ववासनागुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥१३४ महित्यसृष्टो लोकव्यवहारस्य शास्त्रज्ञानस्य च प्रयोजनीयता नास्वीकार्या, संस्कृताल कारिकैस्तु एतेषु प्रभूत' गुरुत्वमारोपितम् । “सा शक्तिः केवल काव्ये हेतुः' इत्युक्त्वापि राजशेखरः कवेः इतिक र्तव्यतां शिक्षां च निर्दिश्य व्युत्पत्त्यभ्यासयोः अपरिहार्यतामेव स्वीकृतवान् । पाश्चात्यदर्शनेऽपि प्रतिभा विस्तृतभावेनालोचिता । असामान्याशक्तियुक्ता एषा प्रतिभा काचिदाविष्करणशक्तिः सृजनीशक्तिवेति मनोविदः येडस्य तथा रस्यानुगामिनामभिमतम् । प्रतिभायाः विकासे चेतनाचेतनयोः संघर्षः तैरङ्गोकृतः। अचेतने मनसि सञ्चिता अवदमिता इच्छा अभिव्यक्तैः प्रयतते, नैतिकचेतने तु सा बाधां प्राप्नोति । एतेन चेतनाचेतनयोः तीव्रः संघर्षो जायते। एवं खलु प्रतिभायाः संकेतः। यया शक्त्या शब्दार्थयोः स्वरूप प्रतिभासित भवेत सेव कस्यापि मतेन सृजनशीला कल्पना, कस्याप्यभिमतेन सहजानुभूतिः, पुनः कस्यापि मतेन काव्यनिर्माणक्षमा प्रतिभा। भारतीयदर्शने या प्रतिभा देवीवररूपेण चिह्निता, पश्चिमस्यास्तिकदर्शने Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy