SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । यद्यतः परं क्षुत्पिपासाक्लान्ताया भर्तृदारिकायाः किमप्यमङ्गलं जायते तदानीं महान् जनापवादः। चन्द्रलेखा - ( साक्षेपम् ) भूयांसोऽपवादाः सन्ति । अयमपि तेषामेकदेशे निषीदतु । तामरसः - ( स्वगतम् ) परित्यक्तसतीव्रतायाः कर्मशचेतसोऽस्याः काऽपवादाभिशङ्का ?। तामसौ जनुषाऽन्धस्य यदिन्दु-तपनावपि । - भग्नब्रह्मव्रतस्यैवं कृत्या-ऽकृत्यातिगं जगत् ॥९॥ चन्द्रलेखा-स्त्रैरवृत्तितया तावदहं ज्ञातिलोकेन बहिष्कृता, तदतः परमपवादः कमपरमपायमुपनेष्यते ?। ... तामरसः - ( स्वगतम् ) सत्यं महादेवी, अभिशङ्कते जनोऽयं जनापवादादपायसञ्जनकात् । अपरं जनापवादं तु मन्यते व्योमपुष्पमिव ॥१०॥ (प्रकाशम् ) देवि ! दुहितरि न चित्तकठोरभाव [उचितः] । चन्द्रलेखा - वत्से ! किं मां मातरमात्मीयामवजानासि ?। प्रतिपद्यस्व माम् । प्रवर्तस्व स्वकर्तव्ये, येन तदुचितां सामग्री करोमि । ___मल्लिका - ( सरोषम् ) 'पडिवना तुम मए वेरिणी । पयट्टाऽहं कायव्वे मरणे ! करेहि मरणसमुचिदं सामग्गि । ...चन्द्रलेखा - ( साक्षेपम् ) आः पापे ! निनिमित्तवैरिणि ! निरनुरोधे ! कृतघ्ने ! त्वामहं गर्भे दधाना पितृ-श्वसुरकुलाभ्यां निर्वासिता सती निर्मानुषप्रचारे वनेचरवृत्या रत्नसानौ क्लेशमनुभवामि । तदिदानी एवं मां वक्रोक्तिभिरुत्तेजयसि ?। . मल्लिका - 'अंब ! नाहं किलेसकारणं, किंतु अणायारो कारणं । चन्द्रलेखा - ( तामरसं प्रति ) पश्यन्नसि दुहितुर्मम मर्मोदघट्टनाम । मागधिका - ( सरोषं मल्लिका प्रति ) भट्टिदारिए ! पडिहदा सि तुमं । जुत्तं ते जणणीपवायपसंसणं ? । १ प्रतिपन्ना त्वं मया वैरिणी । प्रवृत्ताऽहं कर्तव्ये मरणे । कुरु मरणसमुचितां सामग्रीम् । .२ अम्ब ! नाहं क्लेशकारणम्, किन्तु अनाचारः कारणम् । - ३ भर्तदारिके ! प्रतिहताऽसि त्वम् । युक्तं ते जननीप्रवादप्रशंसनम् १ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy