SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं मकरन्दः - किमाश्चर्यम् ? यावत् कुरङ्गनेत्रा तरुणी तरुणस्य दास्यमाधत्ते । वृद्धोऽपि तावदिच्छति न वीक्षयते योग्यतामिच्छा ॥ २०॥ अपि च पृथिव्यां वीरभोग्यायां लक्ष्म्यां चापल्यसंस्पृशि। स्त्रियां चाशक्यरक्षायां कस्य किं नाम नोचितम् ? ॥ २१॥ ( नेपथ्ये) तर्हि प्रयत्नमादधीथाः, इयमेतामपहरामि । वत्से ! मास्म विषादिनी भूः । एहि त्वरिततरम्, त्वामहं विद्याधरराजमहिषीमाधास्यामि । ___ मल्लिका - 'हा अज्जउत्त ! हा ताद ! हा अंब ! एसा असरणा केणावि अवहरिज्जामि । (इति प्रलपन्ती तिरोधत्ते । ) , मकरन्दः - कथमपहृता प्रिया ? हा प्रिये मल्लिके ! त्वदपहारदुःखसाक्षी पापीयान् । (मूच्छति । पुनश्चेतनामास्थाय ) कथमहं दुरात्मा भनप्रतिज्ञः स्वमास्यं मल्लिकामातापित्रोदर्शयामि ? । तदनेनैवोपवनपाश्चात्यद्वारेण निर्गत्य प्रियाप्रेमोचितमादधामि । ( इति निष्क्रान्तः । ) ॥ इति द्वितीयोऽङ्कः ॥२॥ १ हा आर्यपुत्र ! हा तात ! हा अम्ब ! एषा अशरणा केनापि अपहिये । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy