SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ मलिकामकरन्दनाटकम् । मल्लिका - 'भद्द ! कुदो दे कुंडलसंपत्ती ? । मकरन्दः – यतो भवती बन्धुला च जानाति । . . मल्लिका - अज्जउत्त ! मए कुंडलच्छलेण अप्पा तुह समप्पिदो । मकरन्दः - कुण्डलच्छलेन त्वयाऽऽत्मा मद्य समर्पितः, मया तु छलं विनाऽपि तुभ्यम् । मल्लिका - अज्जउत्त ! सुणेहि मे एगं पइन्न-अहं तुमं परिणेमि, कुमारी वा चिट्ठामि । मकरन्दः - ( साक्षेपम् ) सहस्रशो विज्ञातस्यार्थस्य किं फलम् ? । मल्लिकाः - एदं फलं, जधा पुणो पुणो मे दाणि दाहिणं नयणं पडिफुरदि तधा जाणे अवस्सं अवहारेण भोदव्वं, तदो तए जीविदपवासकरणं अवहरणनिबंधो [वा ] न कायो । मकरन्दः - ( साक्षेपम् ) प्रिये ! किमिदमनचितमभिदधासि । हतस्य जीवितस्यास्य निश्चयेन प्रवासिता। . प्रवासश्चेत् प्रियस्यार्थे ततः किं नाम वैशसम् ? ॥ १९॥ मल्लिका - अज्जउत्त ! करेहि मे पसाद, एस दे पुरओ निबद्धो अंजली, सिढिलेहि साहसं, जीवंताणं पुणो वि संगमो भविस्सदि। (नेपथ्ये नूपुरध्वनिः । मल्लिका आकर्ण्य वेपते । मकरन्दः पञ्चपरमेष्ठिनमस्कारयन्नसिदण्डमाकर्षति ।) ( नेपथ्ये) अरे ! कस्त्वमसि रक्षिता परिणेता वा ?। मकरन्दः - अहं परिणेता रक्षिता च । (नेपथ्ये ) अहो ! आश्चर्यम् ,विद्याधरकन्यकाया मनुष्यकीटः परिणेता रक्षिता च । १ भद्र ! कुतः ते कुण्डलसम्प्राप्तिः ? । २ आर्यपुत्र ! मया कुण्डलच्छलेन आत्मा तुभ्यं समर्पितः । ३ आर्यपुत्र ! शृणु मे एका प्रतिज्ञाम् – अहं त्वां परिणयामि, कुमारी वा तिष्ठामि । ४ एतत् फलम् , यथा पुनः पुनः मे इदानीं दक्षिण नयनं प्रतिस्फुरति तथा जानामिअवश्यं अपहारेण भवितव्यम् , ततस्त्वया जीवितप्रवासकरणं अपहरणनिबन्धो [ वा ] न कर्त्तव्यः । ५ आर्यपुत्र ! कुरु मयि प्रसादम् , एष ते पुरतः निबद्धः अञ्जलिः, शिथिलय साहसम् , जीवतोः पुनरपि सङ्गमो भविष्यति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy