SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित - (नेपथ्ये) भ्रमितः पुरपथेषु पटहः । प्रतिज्ञातं चैकेन कितवेन भर्तृदारिकापहाररक्षणम् । कोरकः -भवतु, तर्हि श्रेष्टिने विज्ञापयामि । (-इति परिक्रामति । विलोक्य) किमयं श्रेष्ठी सधर्मचारिण्या बन्धुसुन्दर्या समं किमपि पर्यालोचयन्नस्ति । . (ततः प्रविशति श्रेष्ठी बन्धुसुन्दरी च ।) . श्रेष्ठी - प्रिये ! मास्म वृथा विषादमातथाः। श्रिया शक्त्या च साध्येऽर्थे सिद्धयभावे मनःक्लमः। - उभाभ्यामप्यसाध्ये तु का नाम परिदेवना ? ॥३॥ तथापि सर्वस्वप्रदानेनापि पुत्रीरक्षणार्थ प्रयत्नमाधास्यामि । व्यसने महत्यपि समुल्लसिते निरुपायता खलु न युक्तिमती। जलधेरगाधमपि वारि नरः प्रविगाहते समधिरुह्य तरीम् ॥४॥ बन्धुमती -( सास्रम् ) 'अज्जउत्त ! सब्बो वि एस बालकालादो वच्छापरिपालणापयासो विहलो भविरसदि।। श्रेष्ठी -प्रिये ! विधिनियोगोऽयमशक्यप्रतीकारो लोचने निमील्य सोढव्य एव । . न स मन्त्रो न सा बुद्धिः न च दोष्णां पराक्रमः । _ अपुण्योपस्थितं येन व्यसनं प्रतिरुध्यते ॥५॥ कोरकः - आर्य ! सम्पन्नो रक्षकः। श्रेष्ठी - कः पुनः सम्पन्नः ? । कोरकः - कितवः कोऽपि । श्रेष्ठी - यदि कितवो रक्षकः, सम्पन्न तर्हि प्रयोजनम् । व्यसनाधा हि प्राणव्ययेनापि धनार्थ प्रयोजनं साधयन्ति । कः पुनस्तस्यात्रागमने कालविलम्बः ?। (प्रविश्य ) सुन्दरकः - आर्य ! रक्षकस्य द्यूतकारा राजाज्ञयाऽत्रागमनं निषेधयन्ति । श्रेष्ठी - ( साक्षेपम् ) अस्मत्पतिगृहीतस्य रक्षकस्य द्यूतकाराणामत्रागमनप्रतिषेधने शक्तिरस्ति । १ आर्यपुत्र! सर्वोऽपि एष बालकालाद्. वत्सापरिपालनाप्रयासः विफलो भविष्यति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy