SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं ( युवती कुण्डलयुगलमर्पयति ।) पुरुषः -(समयमात्मगतम्) प्रातरेतस्याः पिता प्रसाधनसंख्यां मयि गवे[षि] ध्यते, ततः कोऽयमनर्थः । . बन्धुला -( सभयं स्वगतम् ) 'किं मए पभाए भट्टिणीए पुरओ उत्तरं कायव्वं ?। पुरुषः -(सरोषम् ) भर्तृदारिके ! केयं स्वेच्छाचारिता? किमिदं वणिक्कुमारिकाचारविरुद्धं परपुरुषाय कुण्डलप्रदानम् ?; तदहं पदातिलोकमानीय कुण्डलमादास्ये । (-इत्यभिधाय निष्क्रान्तः ।) बन्धुला-भट्टिदारिए ! सव्वं पि एदम्मि दुढे संभावीयदि, ता लहुं कहेसु वसणं। ( नेपथ्ये) एषा तस्य पदपद्धतिरुपवनं प्रविशति । ततः प्रदीपज्योतिषा मध्यमवलोकयत । (सर्वे समयमाकर्णयन्ति) बन्धुला-भट्टिदारिए ! एदस्स दुद्रुस्स एदं वियंभियं ।। मकरन्द:-(स्वगतम् ) निश्चितं ममानुपदं कितवाः समायाताः। न चात्र मे प्रतिमयम् । सूत्रधाराभिहितोपश्रुतिश्लोकानुसारेण शुभोदकर्कोऽयं ममोपवनप्रवेशः। युवतिः - 'अज्ज ! किं मए दाणि कादव्वं । , मकरन्दः -व्रज त्वमुपवनपाश्चात्यद्वारेण स्वभबनम् । पुनरहं प्रात(? श्व)स्त्वया निशीथेऽत्र गवेषणीयः। (युवतिः सबन्धुला निष्क्रान्ता।) मकरन्दः -कथं मां दापज्योतिषा दृष्टवन्तः कितवाः ? । भवतु, कामायतनपाश्चात्यभागे तिरोदधामि ! (इति निष्क्रान्ताः सर्वे ।) ॥ प्रथमोऽङ्कः ॥१॥श्रीः॥ १ किं मया प्रभाते भाः पुरतः उत्तरं कर्त्तव्यम् । २ भर्तृदारिके ! सर्वमपि एतस्मिन् दुष्टे सम्भाव्यते, तद् लघु कथय व्यसनम् । ३ भर्तृदारिके ! एतस्य दुष्टस्य एतद् विजृम्भितम् । ४ आर्य ! कि मया इदानी कर्तव्यम् ? । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy