SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ - मल्लिकामकरन्दनाठक्रम् । यदि पुनर्भगवान् विधिरनुकूलतां यास्यति कदाचित् [तदा] तव भर्तृ दारि]कायाः पुरः सर्वमावेदयिष्यामि । बन्धुला-'भट्टिदारिए ! अदिकालो भोदि, निवेदेहि वसणमेदस्स महाणुभावस्स। युवतिः-बन्धुले ! _ 'विउलस्स वि उवयारस्स पुरिससीहस्स दड्ढमहिलाओ। .... पच्चुवयारं मन्नंति देहदाणाओ न हु अहियं ॥२२॥ . बन्धुला-तदो किं ?। - युवतिः-'अहं दाणि देहदाणं पिकाउमसमत्था, तदा कथं वसणं पयासेमि ? कहं च एदाओ वसणपडियारमहिलसेमि ? । · पुरुषः-भर्तृदारिके ! प्रत्युपकारानपेक्षमुपकारकत्वमेतस्य महौजसः; ततो 'मा शतिष्ठाः, प्रकाशय व्यसनम् ।। युवतिः-(मकरन्दं प्रति) पगासयामि वसणं, पढमं पुणो एदं सुणेसु । मकरन्दः -(सहर्ष समीपतरीभूय) किं तत् ?। युवतिः-'विग्धबहुलाओ रयणीओ, असमत्ते वि कहापबंधे विहडणावाओ को वि संभवे । मकरन्दः-(साक्षेपम् ) ततः किम् ? । युवतिः-तदो आरामसंघडणाहिन्नाणं गिहाण मे एदं कुंडलजुयलं । मकरन्दः- (सप्रमोदमात्मगतम् ) कथमस्मत्प्राणसम्पदां ग्रहणसत्यङ्कारमियमुपनयति ? । प्रकाशम् ) भद्रे ! को नाम प्रियजनस्य प्रसादं नाभिमन्यते ? । १ भनदारिके ! अतिकालो भवति, निवेदय व्यसनमेतस्य महानुभावस्य। .... २ विपुलस्य अपि उपकारस्य पुरुषसिंहस्य दग्धमहिलाः । प्रत्युपकारं मन्यन्ते देहदानाद् न हि अधिकम् ॥ ३ ततः किम् ? । ४ अहं इदानी देहदानं अपि कर्तुमसमर्था, ततः कथं व्यसनं प्रकाशयामि ? कथं च एतस्माद् व्यसनप्रतीकारमभिलषामि । ५ प्रकाशयामि व्यसनम् , प्रथमं पुनः एतद् शृणु । .. . ६ विघ्नबहुला रजन्यः, असमाप्तेऽपि कथाप्रबन्धे विघटनापायः कोऽपि सम्भवेत् । ७ ततः आरामसङ्घटनाभिज्ञानं गृहाण मे एतत् कुण्डलयुगलम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy